पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४

  • पञ्चतन्त्रम् *

[१ मित्र- चित्रास्वादकथै त्यैरनायासितकार्मुकैः । ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रियम् ॥ ४१६ ॥ तरिक मूर्योपदेशेन ? । केवलं दोष एव न गुणः । उक्तञ्च- नाऽनाम्यं नमते दारु, नाश्मनि स्यात्क्षुरक्रिया। सूचीमुखं विजानीहि नाशिष्यायोपदिश्यते ॥ ४१७ ।। दमनक आह-'कथमेतत् ? । सोऽब्रवीत्- १७. सूचीमुखवानरकथा अस्ति कस्मिश्चित्पर्वतैकदेशे वानरयूथम् । तच्च कदाचि. धेमन्तसमयेऽतिकठोरवातसंस्पर्शवेपमानकलेवरं, तुषारवर्षोद्धत- प्रवपद्धनधारानिपातसमाहतं न कथञ्चिच्छान्तिमगमत् । अथ केचिद्वानरा वह्निकणसदृशानि गुलाफलान्यवचित्य वह्निवाञ्छया फूत्कुर्वन्तः समन्तात्तस्थुः । अथ सूचीमुखो नाम पक्षी तेषां तं वृथायासमवलोक्य प्रोवाच-'भोः ! सर्वे मूर्खा यूयम्, नैते वह्निकणाः, गुलाफलानि एतानि । तत्कि वृथा श्रमेण ? । नैतस्माच्छीतरक्षा भविष्यति, चित्रास्वादकथैः = नानारसाश्रयस्तुतिकथामात्रसारैः । ('खुशामदी-जी हुजूर' 'गप्पी')। अनायासितकार्मुकै =अनभ्यस्तकोदण्डाकर्षणे । अज्ञातशस्त्रास्त्र- प्रयोगैरिति यावत् । रमन्ते प्रसीदन्ति । तेषा स्त्रियमिव-श्रियं-राजलक्ष्मीम् , रिपवो रमन्ते-रमयन्ति । तस्य राज्यं नश्यतीति यावत् ॥ ४१६ ॥ अश्मनिपाषाणे । क्षुरक्रिया क्षुरकर्म। 'सूचीमुख'इति पक्षिविशेष- नामधेयम् । अशिष्याय उपदेशायोग्याय ॥४१॥ तच्च-कपियूथञ्च । अतिकठोर- स्य वातस्य यः संस्पर्श =सम्पर्कस्तेन वेपमानं कलेवरं-वपुर्यस्य तत्तथा। तुपार- वर्षेण उद्धत =दु सह शब्दायमानश्च प्रवर्षन् यो घन -मेघ , तस्य धाराणा १ 'चित्रचाटुकरे रिति । २ 'रमन्ते रिपवः श्रिया पा०। ३ 'न शस्त्र क्रमतेऽश्मनि । मूचीमुख्या इवाऽशिष्ये नोपदेश सुखावहः' । 'न शस्त्रं वहतेऽश्मनि । सूचीमुख विजानीहि योऽशिष्यायोपदिष्टवान्' इति पा० ।