पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

१५३ तन्मूर्ख ! तत्कर्तुमसमर्थस्त्वं । यतो विपरीतवुद्धिरसि । उक्तश्च- घातयितुमेव नीच' परकार्य वेत्ति न प्रसाधयितुम् । पातयितुमेव शक्ति खोरुद्धर्तुमन्नपिटम् ।। ४१३ ।। अथवा न ते दोषोऽयं । स्वामिनो दोषः, यस्ते वाक्यं श्रद्दधाति । उक्तञ्च- नराधिपा नीचजनानुवर्तिनो बुधोपदिष्टेन पथा न यान्ति ये । विशन्ति ते दुर्गममार्गनिर्गमं सपत्नसम्बाधमनर्थपञ्जरम् ।। ४१४ ॥ तद्यदि त्वमस्य मन्त्री भविष्यति, तदान्योऽपि कश्चिन्नास्य समोपे साधुजनः समेष्यति । उक्तञ्च- गुणालयोऽप्यसन्मन्त्रो नृपतिर्नाधिगम्यते । - प्रसन्नस्वादुसलिलो दुष्टग्राहो यथा ह्रदः ।। ४१५ ॥ तथा शिष्टजनरहितस्य स्वामिनोऽपि नाशो भविष्यति । शक्ति =विनिपातप्रतीकारचिन्तने तव शक्तिरस्ति चेत् । तत्-तर्हि । भिन्न- सन्धाने विकृतसमाधाने (विगडी वात को बनाने में)। तत्-विकृतसमीकरणम्। ( यत क्योकि') विपरीतबुद्धि =असमीक्ष्यकारी, अतत्त्वदर्शी च'। घातयितुं नाशयितुम् । क्वचित्तथैव पाठ । आखो मूषिकस्य । अन्नपिटम् अन्नपिटकम् । .(पिटक = 'पेटी' 'सन्दूख' 'बखार' )। अत्र 'वट' मिति पाठे-मूलकतनादिना वटवृक्ष पातयितुं मूषक प्रभवति, नोत्थापयितुमित्यर्थों बोध्य ॥४१३॥ श्रद्दधाति विश्वसिति । नराधिपा =राजान. । नीचजनानुवर्तिन =दुष्टजना- नुविधायिन सन्त , बुधोपदिष्टेन-सज्जनपण्डितोपदिष्टेन। पथा मार्गेण । अमार्ग- निर्गमम् मार्गानुसन्धानशून्यम्-अतएव दुर्ग=दुर्गम, सपत्नसम्बाध शत्रुसङ्कु- -- लम् अनर्थपञ्जरम् विपज्जालं-प्रविशन्तीति सम्बन्ध ।(पञ्जर=पिंजरा)॥४१४॥ गुणालय =गुणवान् । क्वचित् ‘गुणवान्' इत्येव पाठ । असन्मन्त्री दुष्टमन्त्रिसमन्वित ।नाधिगम्यते-नाश्रीयते । 'विद्वद्भि'रिति शेष । दुष्टग्राह = दुष्टग्राहाश्रित ॥ ४१५॥ १ 'नीचमतानुवर्तिन'। 'नीचमनोऽनुवर्तिन' इति ।