पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • श्रीगणेशाय नम.*

पञ्चतन्त्रकम् श्रीगुरुप्रसादशातिविरचितया- अभृित्तवा राजलक्ष्मीटीकया विराजित ।

  • अथ कथामुखम् *

ब्रह्मा रुद्रः कुमारो हरिवरुणयमा वहिरिन्द्रः कुवेर- श्चन्द्रादित्यौ सरस्वत्युदधियुगनगा वायुरुर्वी भुजङ्गा । सिद्धा नद्योऽश्विनौ श्रीदितिरदितिसुता मातरश्चण्डिकाद्या वेदास्तीर्थानि यज्ञा गणवसुमुनय. पान्तु नित्यं ग्रहाश्च ॥१॥ श्रीगुरुप्रसादशास्त्रिविरचिता-- अभिनव-राजलक्ष्मीः वन्देऽनवद्यसद्धृद्यविद्योद्योतितदिङ्मुखान् । मरुमण्डलमार्तण्डस्नेहिरामाभिधान् गुरून् ॥१॥ कथाया --मुख प्रारम्भ । भूमिकेति यावत् । 'मुखमुपाये प्रारम्भे श्रेष्ठे निस्सरणास्ययो रिति हैम । ब्रह्मेति । कुमार -स्कन्द । हरि. विष्णु । सरस्वती-शारदा । समुद्रा- श्चत्वार सागरा । युगा =सत्य-त्रेता-द्वापर-कलियुगा । उर्वी-पृथ्वी। भुजङ्गा =सर्पा । नद्य =गङ्गाद्या । दिति =दैत्यमाता । अदितिसुता =देवा । मातर =चण्डिकाद्या । 'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा सप्त मातर' ॥ इति । गणा -गणचारिणो देवा-आदित्याद्या , शिवगणाश्च । वसव'- अष्टौ वसव ।मुनय =देवब्रह्मर्षयोऽन्ये च सिद्धा मुनयः । नव ग्रहाश्च आदित्याद्या- संसारमस्मान्-अध्येतृपाठकाश्च । पान्तु-रक्षन्तु ॥ १ ॥