पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२ ) १९३१ मध्यमपरीक्षा प्रथमखण्डे पञ्चतन्त्रस्य प्रथमतन्ने प्रश्नाः । १ अधोलिखितं गद्यं शुद्धहिन्दीभाषयाऽनूद्यताम्- कस्मिश्चिदधिष्टाने एक कुम्भकारः प्रतिवसति स्म । स कदाचित्प्रमादाद- ईभन्नघटकपरतीक्ष्णाग्रस्योपरि महता वेगेन धावन् पतित । ततः कर्पर- कोट्या पाटितललाटो रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्चापथ्यसेवनात् स प्रहारस्तस्य करालता गतः, कृच्छ्रेण नीरोगता नीतः। अथ कदाचिहुर्भिक्षपीडिते देशे स कुम्भकारः क्षुत्क्षामकण्ठः कैश्चिद्राजसेवकै. सह देशान्तरं गत्वा कस्यापि राज्ञ सेवको बभूव । सोऽपि राजा तस्य ललाटे विकरालं प्रहारक्षतं दृष्ट्वा चिन्तयामास यत्-वीरः पुरुष. कश्चिदयम् । नूनं तेन ललाटपट्टे संमुखप्रहार । अतस्तं संमानादिभिः सर्वेषां राजपुत्राणा पश्यतां विशेषप्रसादेन पश्यति स्म। तेऽपि राजपुत्रा' तस्य तं प्रसादातिरेकंपश्यन्त परमीाधम वहन्तो राजभयान्न किञ्चिदूचुः । अथान्यस्मिन्नहनि तस्य भूपतेः वीरसम्भावनाया क्रियमाणायां विग्रह समुपस्थिते प्रकल्प्यमानेषु गजेषु सन्नह्यमानेषु वाजिपु योधेषु प्रगुणीक्रिय- माणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने । ३ उपेक्षित. क्षीणबलोऽपि शत्रुः प्रमाददोषात्पुरुषैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसावसाध्यता व्याधिरिव प्रयाति ॥ अथ पद्यस्य सरलहिन्दीभाषाया भावार्थो लेख्य.। पञ्चतन्त्रीयपञ्चमतन्त्रान्तर्गता कापि कथा स्वसंस्कृतभाषाया लिख्यताम् । • सा च पञ्चाशत्पतिभ्योऽधिका न भवेत् । १० ५ सन्तप्तायसि संस्थितस्य पयसो नामापि न जायते । मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वाती सागरशुक्तिसम्पुटगतं तज्जायते मौक्तिक प्रायेणाधममध्यमोत्तमगुण. संवासतो जायते ।। अस्य पद्यस्य सरलसंस्कृतभाषया व्याख्या क्रियताम् । इति श्रीगुरुप्रसादशास्त्रिभिः परिष्कृतं पञ्चतन्त्रकम् । .