पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

  • पञ्चतन्त्रम् *

[ कथा- 1 मनवे वाचस्पतये शुक्राय पराशराय ससुताय । चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥२॥ सकलाऽर्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम् । तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ।।३।। तद्यथानुऽश्रूयते-अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलाऽर्थिकल्पद्रुमः, प्रवरमुकुटमणिमरीचि- मञ्जरीचर्चितचरणयुगलः, सकलकलापारङ्गतोऽमरशक्तिर्नास राजा वभूव। तस्य पुत्राः परमदुर्मेधसो-बहुशक्तिरुनशक्तिर- नन्तशक्तिश्चेति नामानो बभूवुः। मन-राजपये मनुस्मृतिकत्रे । वाचस्पतये बृहस्पतये। ससुताय-पुत्रयुताय पराशराय । ( पराशरसुत =व्यास )। चाणक्याय-कौटल्याय। एभ्यो नयशास्त्र- कर्तृभ्य =नीतिशास्त्रप्रणेतृभ्य -जम =नमोऽस्तु ॥ २ ॥ सकलेति । सकलाना=सर्वेषा श्रेष्ठानाम् । अर्थशास्त्राणा-नीतिशास्त्राणाम् । इदं वक्ष्यमाणं । सारं-तत्त्व । जगति-संसारे । समालोक्य अनुभूय, अधिगत्य च। सुमनोहरं वालादिमनोहारि। एतत् पञ्चतत्राख्यं । शास्त्र-नीतिगाल्लं । पञ्चभिस्तन्त्रै =प्रकरणे । चक्रे । सकलनीतितत्त्वमत्र यथावदनुभूतं लोके परम्पराप्राप्तं च वालोपकृतये-निरूपितमित्याशय ॥ ३ ॥ तत्=पञ्चतन्त्राख्य शास्त्रम् । यथाऽनुश्रूयते यथा प्रारभ्यते, प्रचलति च गुरुपरम्परया । 'तथोपदिशाम' इति शेष । वृद्धपरम्पराऽनुश्रुता कथा कथयाम इति भाव । यद्वा-तत्-वक्ष्यमाणं पञ्चतन्त्रवर्णितं कथाजातं, यथा येन प्रकारेण जगति प्रसिद्धं । 'तथोपदिशाम' इति शेप । अनुश्रूयते-कर्णाकर्णिकया श्रूयते-यन्- 'दाक्षिणात्ये जनपदे सण्डले, महिलारोप्यं नाम नगरमस्तीत्यन्वय । तन्त्र-नगरे । सकलानाम्-अर्थिना-याचकाना-कल्पद्रुम इव सकलार्थि- कल्पद्रुम =अर्थिसार्थमनोरथाना पूरक । प्रवराणा श्रेष्टाना राज्ञा, ये मुकुटमणय = किरीटरत्नानि, तेपा मरीचय =कान्तय एव मजर्य , ताभिश्चर्चितं रञ्जितं-पूजितं- चरणयोर्युगलं यस्य स-सकलराजमान्य । सकलाना-कलाना=विद्याना, पार- गत =तत्त्वदर्शी । तस्य अमरगक्तिभूपते. । दुष्टा मेधा-बुद्धि -येपान्ते दुर्मधस ।