पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः]

  • अभिनवराजलक्ष्मीविराजितम् *

नीतिविद्भिरक्तश्च- कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये प्रीत्या संशमयन्ति नीतिकुशलाः साम्नैव-ते मन्त्रिणः । निःसाराऽल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमै- स्तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ ४०७ ।। तद्यदि स्वाम्यभिघातो भविष्यति तर्तिक त्वदीयमन्त्रबुद्धथा क्रियते ?। अथ सञ्जीवको न वध्यते तथाऽप्यभव्यम् । यतः प्राणसन्देहात्तस्य च वधः। तन्मूढ ! कथं त्वं मन्त्रिपदमभिल- षसि ? । सामंसिद्धिं न वेत्सि। तदृथा मनोरथोऽयं ते दण्ड- रुचेः। उक्तश्च- सामादिर्दण्डपर्यन्तो नय. प्रोक्तः स्वयम्भुवा । तेषां दण्डस्तु पापीयांस्तं पश्चाद्विनियोजयेत् ।। ४०८ ।। तथाच- साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति-कोऽर्थः पटोलेन ? ॥ ४०९॥ तथाच- आदौ सौम प्रयोक्तव्यं पुरुषेण विजानता। सामसाध्यानि कार्याणि विक्रियां यान्ति न क्वचित् ॥४१०॥ मानीति तत्साम्यम् । दण्डोपायसाध्यानि कठिनतराण्यपि महान्ति कार्याणि ये- प्रीत्यैव सामोपायेनैव-साधयन्ति त एवखलु मन्त्रिण, ये नु-सान्त्वसाध्यान्यपि तुच्छान्यपि च कार्याणि दण्डोद्यमेनैव साधयितुमिच्छन्ति-तेपा मन्त्रिणा दुर्नयचेष्टितै =दुष्टनीतिचेष्टितै राज्ञ श्रीस्तुलायामारोप्यते, संशये स्थाप्यते॥४०७॥ मन्त्रबुद्धया भेदोपायप्रयोगेण।अभव्यम्-न युक्तम्। सामसिद्धि-सामोपायेन कार्यसिद्धिम् । दण्डरुचे =दण्डोपायप्रियस्य । युद्धप्रियस्येति यावत् । सामादि = सान्त्वप्रधान । दण्डपर्यन्त =युद्धपर्यन्त ।नय =नीतिमार्ग । स्वयम्भुवा=ब्रह्मणा । अधम । तं दण्डम् । पश्चात् सर्वोपायै. सिद्धयभावे ॥ ४०८ ॥ पित्त-पित्तप्र- 1 'सामनामाऽपि न जानामि'। २ 'तस्माद्दण्ड विवर्जयेत् इति लिखिते रम्यः पाठः । ३ 'साम्मैवादौ प्रयोक्तव्यं कार्याकार्यविचक्षणै'। ।