पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२

  • पञ्चतन्त्रम् *

[१ मित्र- न चन्द्रेण न चौपध्या न सूर्येण न वह्निना । साम्नैव विलयं याति विद्वेषिप्रभवं तमः ।। ४११ ।। तथा यत्त्वं मन्त्रित्वमभिलपसि, तदप्ययुक्तम्, यतस्त्वं मन्त्र- गतिं न वेत्सि । पञ्चविधो हि मन्त्रः। स च (१) कर्मणामार- म्भोपायः। (२) पुरुषद्रव्यसम्पत् । (३) देशकालविभागः । (४) विनिपातप्रतीकारः । (५) कार्यसिद्धिश्चेति । सोऽयं स्वाम्यमात्ययोरेकतरस्य किंवा द्वयोरपि विनिपातः समुत्पद्यते लग्नः ? । तद्यदि काचिच्छक्तिरस्ति तद्विचिन्त्यतां विनिपातप्रती. कारः। भिन्नसन्धाने हि मन्त्रिणां वुद्धिपरीक्षा । उक्तञ्च- मन्त्रिणां भिन्नसन्धाने, भिपजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा, स्वस्थे को वा न पण्डितः ? ।। ४१२ ॥ । कोप । शरिया मधुरया सितया । पटोलेन-तिक्तौषधिभेदेन । कि प्रयोजनं ? =न प्रयोजनमित्यर्थः । विजानता-पण्डितेन । 'सामसिद्धानी ति गौडा पठन्ति। विक्रिया विकारम् ॥ ४१० ॥ विद्वेषिप्रभवं-रिपुसमुद्भतं। तम -द्वेष , अन्ध- कारश्च । चन्द्रादिभिर्नापयाति, किन्तु सान्त्वेनैवेति भाव ॥ ४११ ॥ मन्त्रगति मन्त्रविधि, मन्त्रप्रकाराश्च । कर्मणामिति । अभीष्टाना कार्याणाम्-आरम्भे-साधने। उपाया. सन्धि- विग्रहादयः । कार्याणा साधने सहायभूताश्च-धनपुरुषादयः, तेषा सम्पत्तिः- समृद्धि । कार्यसाधने देशस्य कालस्य च विभाग -'अस्मिन् काले इदं कर्त्तव्यम्' 'अस्मिन्देशे इदं कर्त्तव्यमिति । विनिपातस्य कार्यसाधनमार्गे आगताया विपत्ते प्रतीकार'-समाधानम् । कार्यस्य साधने सन्धिविग्रहादौ या विपदः सम्भाव्यन्ते तासामादावेव निराकरणमित्यर्थ । कार्यस्य अभीष्टस्य सिद्धिश्चेत्यर्थः । तदुक्तं कामन्दकीये-'सहाया साधनोपाया विभागो देशकालयो । विनिपातप्रतीकार सिद्धि पञ्चाङ्गमिष्यते ॥ इति । सोऽयं = पुरोऽनुभूयमानः। एकतरस्यद्वयोर्मध्ये एकस्य । विनिपातः- विनाश । लग्न समुत्पद्यते मन्त्रप्रयोगानन्तरमेव संलग्न इव समुपदृश्यते । १ 'नोन्मयूखेन नातपेन न रलेन वहना' इति पाठान्तरम् ।