पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०

  • पञ्चतन्त्रम् *

[१ मित्र- पठत्-'अहो ! साध्विदमुच्यते- अन्तर्लीनभुजङ्गमं गृहमिव, व्यालाकुलं वा वनं, ग्राहाकीर्णमिवाऽभिरामकमलच्छायासनाथं सरः। नित्यं दुष्टजनैरसत्यवचनाऽऽसक्तैरनायवृतं दुःखेन प्रतिगम्यते प्रचकितै राज्ञां गृहं वार्धिवत् ॥४०६॥ एवं पठन्दमनकोक्ताऽऽकारं पिङ्गलकं दृष्ट्वा प्रचकितः संवृतः शरीरो दूरतरं प्रणामकृति विनाप्युपविष्टः । पिङ्गलकोऽपि तथा- विधं तं विलोक्य दमनकवाक्यं श्रद्दधानः कोपात्तस्योपरि पपात । अथ सञ्जीवकः खरनखरविकर्तितपृष्ठ. शृङ्गाभ्यां तदुदर- मुल्लिख्य कथमपि तस्मादपेतः शृङ्गाभ्यां हन्तुमिच्छन्युद्धायाs. वस्थितः। अथ द्वावपि तौ पुष्पितपलाशप्रतिमौ परस्परं वधकाङ्क्षिणी दृष्ट्वा करटकः साक्षेपं दमनकमाह-'भो मूढमते ! अनयोर्विरोध वितन्वता त्वया साधु न कृतम् । न च त्वं नीतितत्त्वं वेत्सि । स्खलितगतिः भग्नगमन , कम्पितचरण.। सिहाश्रय=सिंहभवनम् । भुज- गमाः सर्पाः, विटाश्च । 'भुजगो विटसर्पयो रिति कोशः। व्याला=सिंहा, दुष्टगजाः, सर्पा ,खलाश्च । 'व्यालो दुष्टगजे सखले श्वापदसियो रिति विश्व.। अभिरामकमलच्छायासनाथं सुन्दरपद्मातपत्रशोभितम। सर सरोवरं। ग्राहा- कीर्णमिव = दुष्टजलचराक्रान्तमिव । राजगृहपक्षे-ग्राहसादृश्यादाहा. = वञ्चका. खला.। वार्धि -समुद्र । सोऽपि-प्रत्यन्तवासिम्लेच्छे परिवृतो भवति। राज- कुलेष्वपि प्रायो दुष्टा निवसन्त्येवेति तयो साम्यम् । प्रचकिते =भीते ॥४०॥ प्रचकित =भीत । संवृतशरीर =सुगूढकाय । प्रणामकृति =राजोचितो नमस्कारादि । तथाविध-दमनकोक्ताकारम् । तस्थ-मञ्जीवकस्य । खरा =तीक्ष्णा । नखरा =नखा.। उद्विख्य विदार्य। तस्मात्-सिंहात् । अपेत -अपसृत । पुष्पितपलाशप्रतिमौ–कुसुमितपलाशवृक्षसदृशो। रक्तसदृशानि हि पलाशकुसु- , 'अन्तगूढ' । २ 'असत्यवचनै क्षुद्रैरनायीकृत , दुखेनेह विगाह्यते तुचकितै राज्ञा मनः सेवक' पा० । ३ 'यदनयोविरोधस्त्वया कृत , तन्न साधु विहितम् । यतः सकलमपि वनमिदमाकुलीकृत भवता । ततस्त्व न नीतितत्त्व वेसि ।' पा०1