पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

१३७ तथा च- चाटुतस्करदुर्वृत्तैस्तथा साहसिकादिभिः ।। पीड्यमानाः प्रजा रक्ष्याः कूटच्छद्मादिभिस्तथा ॥३७४।। प्रजानां धर्मपभागो राज्ञो भवति रक्षितु.। । अधर्मादपि पभागो जायते यो न रक्षति ॥३७५।। प्रजापीडनसन्तापात्समुद्भूतो हुताशनः । राज्ञः श्रियं कुलं प्राणान्नाऽदग्ध्वा विनिवर्तते ॥३७६|| राजा वन्धुरवन्धूनां राजा चक्षुरचक्षुपाम् । राजा पिता च माता च सर्वेपां न्यायवर्तिनाम् ।।३७७।। फलार्थी पार्थिवो लोकान्पालयेद्यत्नमास्थितः । दानमानादितोयेन मालाकारोऽङ्कुरानिव ।।३७८॥ यथा बीजाङ्कुर. सूक्ष्म प्रयत्नेनाभिरक्षितः । फलप्रदो भवेत्काले तल्लोकः सुरक्षित ।।३७९।। हिरण्यधान्यरत्नानि पानानि विविधानि च । तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्यान्नृपस्य तत् ॥३८०॥ अथैवं गरुडः समाकर्ण्य तहुःखदुःखितः कोपाविष्टश्च व्यचि- पर ॥२७॥ चाटवः कपटिन , प्रियवक्तार । ( चापलूस )। तस्करा =चौरा। दुव॒त्ता =दुश्शीला । ('बदचलन' ) । साहसिका =क्रूरकर्माण , दस्यवश्च । ('विगडैल' 'डाकू' 'गुण्डा')। तै । कूटच्छमादिभि =मायाकपटादिभिश्च- पीड्यमाना प्रजा राज्ञा रक्ष्या इत्यर्थ ॥ ३७४ ॥ प्रजानामिति । प्रजाभिराच- रिताद्धर्मात्पष्टो भागो यथा तद्रक्षकस्य राजो भवति, तथा यथावत्पालनमकुर्वतो राजश्च प्रजाकृतस्य पापस्यापि पष्ठो भागो भवतीत्यर्थ ॥३७५॥ प्रजापीडनसन्ता- पात्-प्रजापीटनरूपात्सन्तापात् समुद्भूत =उत्पन्नो वह्नि -राज्ञो लक्ष्मी कुलं प्राणाश्च ढरध्वैव निवर्तते शाम्यति नान्यथा ॥ ३७६ ॥ अवन्धूनाम्= वन्धुरहितानामनाथादीनाम् । अचक्षुषाम् अन्धानाम् ॥३७७॥ फलार्थी धनार्थी, फलार्थी च।लोकान् प्रजा । दानमानादिकमेव तोय जल, तेन । मालाकार =मालिक । (माली) ॥३७८॥ सूक्ष्म =स्वल्प । काले-अवसरे, वृक्षभावमापन्न सन्। लोक =प्रजा ॥तत्-वनधान्यभोजनासनविहारादिकम्॥३८०॥