पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८

  • पञ्चतन्त्रम् *

[१ मित्र- न्तयत्-'अहो! सत्यमुक्तमेतैः पक्षिभिः, तदद्य गत्वा तं समुद्र शोषयामः।' एवं चिन्तयतस्तस्य विष्णुदूतः समागत्याऽऽह- 'भो गरुत्मन् ! भगवता नारायणेनाऽहं तव पार्श्वे प्रेषितः । 'देवकार्याय भगवानमरावत्यां यास्यतीति । तत्सत्वरमागम्य- ताम् ।' तच्छ्रुत्वा गरुडः साऽभिमानं प्राह-'भो दूत ! किं मया कुभृत्येन भगवान्करिष्यति ?' तद्गत्वा तं वद,-यदन्यो भृत्यो वाहनायाऽस्मत्स्थाने क्रियताम् । मदीयो नमस्कारो वाच्यो भगवतः। उक्तञ्च- यो न वेत्ति गुणान्यस्य न तं सेवेत पण्डितः । न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव' ॥ ३८१ ॥ दूत आह-'भो वैनतेय ! कदाचिदपि भगवन्तं प्रति त्वया नैतदभिहितहक् , तत्कथय किं ते भगवताऽपमानस्थानं कृतम्?।' गरुड आह-'भगवदाश्रयभूतेन समुद्रणाऽस्मट्टिट्टिभाण्डा- न्यपहृतानि, तद्यदि तस्य निग्रहं न करोति, तदहं भगवतो न भृत्यः-इत्येष निश्चयस्त्वया वाच्यः । तद्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम् ।' अथ दूतमुखेन प्रणयकुपितं वैनतेयं विज्ञाय भगवांश्चिन्तया- मास-'अहो स्थाने कोपो वैनतेयस्य, तत्स्वयमेव गत्वा सम्मान- पुरःसरं तमानयामि । उक्तञ्च- भक्तं शक्तं कुलीनं च न भृत्यमपमानयेत् । पुत्रवल्लालयेन्नित्यं य इच्छेच्छ्रियमात्मन. ॥ ३८२ ।। गरुत्मन हे गरुड ! अमरावत्या=देवपुर्याम्। वैनतेय गरुड ! ईदृक- ईदृशम् । भगवता=नारायणेन । सुकृष्टादपि-ऊषरात्=कृष्यनहभूमेन फलं सम्भव- तीत्यर्थ ॥ ३८१ ॥ अपमानस्थानम् अनादरव्यवहार.। भगवदाश्रयभृतेन नारायणाश्रयेण । विष्णुहि समुद्रे शेते । निग्रह-शासनम् । तत्-तहि। प्रणयकुपितम्-कृतककुपितम् , मानिनम् । स्थाने-उचितेऽवसरे। सम्प्र-