पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- तामस्य शोषणोपायः । ते संमन्त्र्य प्रोचुः-अशक्ता वयं समु- द्रशोषणे, तत्कि वृथा प्रयासेन ? । उक्तञ्च- अबल: प्रोन्नतं शत्रु यो याति मदमोहितः । युद्धार्थ स निवर्तेत शीर्णदन्तो गजो यथा ॥३७१।। तदस्माकं स्वामी वैनतेयोऽस्ति, तत्तस्मै सर्वमेतत्परिभव- स्थानं निवेद्यताम् , येन स्वजातिपरिभवकुपितो वैरानृण्यं गच्छ- ति । अथवाऽत्रावलेपं करिष्यति तथापि नास्ति वो दुःखम् । उक्तञ्च सुहृदि निरन्तरचित्ते गुणवति भृत्येऽनुवर्तिनि कलत्रे । स्वामिनि शक्तिसमेते निवेद्य दुःखं सुखी भवति ॥३७२॥ तद्यामो वैनतेयसकाशं-यतोऽसावस्माकं स्वामी । तथानु- ष्ठिते सर्वे ते पक्षिणो विषण्णवदना चाष्पपूरितदृशो वैनतेय. सकाशमासाद्य करुणस्वरेण फूत्कर्तुमारब्धाः-'अहो! अब्रह्मण्यम्!! अब्रह्मण्यम् !!! अधुना सदाचारस्य टिट्टिभस्य भवति नाथे सति समुद्रेणाऽण्डान्यपहृतानि, तत्प्रतष्टमधुना पक्षिकुलम् । अन्येऽपि स्वेच्छया समुद्रण व्यापादयिष्यन्ते । उक्तञ्च- एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् । गतानुगतिको लोको न लोकः पारमार्थिकः ॥३७३।। अबल =निर्वल । प्रोन्नतं प्रबलम् । मदमोहित =मदोन्मत्त । शीर्णदन्त = भग्नदन्त । परिभवस्थानम्-अपमानप्रसङ्ग. स. गरुड । जातिपरिभवकुपित -पक्षि- जातिपराभवक्रुद्ध । वैरानृण्यं वैरपरिशोधं । गच्छति-विधत्ते । समुद्रं दण्डयती- त्यर्थ । अवलेपम् उपेक्षाम् । फूत्कर्तु-रोदितुं, ('रोने और चिल्लाने लगे' )। अब्रह्मण्यम्-महाननर्थ , महदनौचित्यम् । सम्भ्रमे द्विरुक्ति । सदाचारस्य= अनपराधिन । भवति श्रीगरुडे । नाथे-प्रभौ । सति विद्यमाने सति । तत्= तस्मात् , अन्येपि मदतिरिक्ता अन्येपि पक्षिण । कर्म-अनुचितं । संवीक्ष्य दृष्ट्वा । गर्हितम् अनुचितम्। गतानुगतिक =परमार्गानुसारी। पारमार्थिक विचार-