पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- उक्तश्च- आपदि येनाऽपकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ ३६६ ॥ काष्ठकुट्ट आह-'भगवति! सत्यमभिहितं अवत्या । उक्तञ्च- स सुहृद्ध्यसने यः स्यादन्यजात्युद्भवोऽपि सन् । वृद्धौ सर्वोऽपि मित्रं स्यात्सर्वेषामेव देहिनाम् ।। ३६७ ॥ स सुहृद्ध्यसने यः स्यात्स पुत्रो यस्तु भक्तिमान् । स भृत्यो यो विधेयज्ञः, सा भार्या यत्र निर्वृत्तिः ।। ३६८ ॥ तत्पश्य मे बुद्धिप्रभावम् । परं ममापि सुहृद्भूता वीणारवा नाम मक्षिकास्ति, तत्तामाहूयागच्छामि, येन स दुरात्मा दुष्ट- गजो वध्यते । अथाऽसौ चटकया सह मक्षिकामासाद्य प्रोवाच- 'भद्रे ! ममेष्टेयं चटका केनचिढुष्टगजेन पराभूताऽण्डस्फोटनेन । तत्तस्य वधोपायमनुतिष्ठतो मे साहाय्यं कर्तुमर्हसि ।' मक्षिकाऽप्याह-भद्र । किमुच्यतेऽत्र विषये । उक्तञ्च- पुनःप्रत्युपकाराय. मित्राणां क्रियते प्रियम् । यत्पुनर्मित्रमित्रस्य कार्य मित्रैर्न-किकृतम् ? ॥ ३६९ ।। दुष्टहस्तिन । विषमासु-कठिनासु । दशासु-अवस्थासु । तयोरुभयो =अपकारिण उपहासकर्तुश्च । पुनरपि जातं पुनर्लब्धजन्मानम् ॥३६६॥ भगवति-सुभगे । । स इति । अन्यजात्युत्पन्नोऽपि य -व्यसने विपदि, स्यात्-सन्निहितो भवेत् , स एव सुहृत् । वृद्धौ-सम्पत्तौ तु सर्वोपि सर्वेषामपि मित्रता भजत्ये- वेति भाव. ॥३६७ ॥ विधेयज्ञः कर्त्तव्यकुशल । भार्या उत्तमा भार्या। निर्वृति =सुखम् ॥३६८।। इष्टा-सुहृद्भूता । पराभूता=अपमानिता । अण्डस्फोटनेन=अण्डसञ्चूर्णनेन । तस्य= गजस्य । पुनरपीति । मित्राणा प्रियं यन्मित्रेण क्रियते, तत्पुन प्रत्युपकाराशयेव क्रियते, तत्र कि महत्त्वं मित्रस्य। यच्च-मित्रमित्रस्य कार्य स्वप्रत्युपकाराशा- शून्यतया करणीयं तद्यदि मित्रैर्न कृतं तदा वद मित्र. कि कृतम् १, न किमपी- त्यर्थ । अतो मित्र-मित्राणा कार्य मित्रकार्यापेक्षयाऽपि औत्सुक्येन करणीयमेवे-