पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

सत्यमेतत् । परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति, तमप्याहूय यथोचितं कुर्मः । उक्तञ्च- हितै. साधुसमाचारैः शास्त्रज्ञैर्मतिशालिभिः । कथञ्चिन्न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ।। ३७० ।। अथ ते त्रयोऽपि गत्वा मेघनादस्याऽग्ने समस्तमपि वृत्तान्तं निवेद्यतस्थुः। अथ सः प्रोवाच-कियन्मात्रोऽसौ वराको गजो महाजनस्य कुपितस्याग्रे ? । तन्मदीयो मन्त्रः कर्तव्यः। मक्षिके ! त्वं गत्वा मध्याह्नसमये तस्य मदोद्धतस्य गजस्य कर्णे वीणारच- सदृशंशब्दं कुरु, येन श्रवणसुखलालसो निमीलितनयनो भवति । ततश्च काष्ठकुट्टचञ्च्वा स्फोटितनयनोऽन्धीभूतस्तृषार्तो मम गर्ततटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा सम- भ्येति, ततो गर्तमासाद्य पतिष्यति, पञ्चत्वं यास्यति चेत्येवं समवायः कर्तव्यो यथा वैरसाधनं भवति ।' अथ तथाऽनुष्ठिते स मत्तगजो मक्षिकागेयसुखानिमीलितनेत्र काष्ठकुट्टहृतचक्षुर्मध्याह्नसमये भ्राम्यन्मण्डूकशब्दानुसारी गच्छ. न्महती गामासाद्य पतितो, मृतश्च । अतोऽहं ब्रवीमि-'चटका काष्ठकुट्टेन-'इति । * टिट्टिभ आह-भद्रे ! एवं भवतु सुहृद्वर्गसमुदायेन समुद्र शोषयिष्यामि ।'-इति निश्चित्य बकसारसमयूरादीन्समाहृय प्रोवाच-भोः ! पराभूतोऽहं समुद्रेणाऽण्डकापहारेण, तञ्चिन्त्य त्याशय ॥ ३६९ ॥ हितैर्विद्वद्भिश्चिन्तिता - नया. नीतिविनिश्चया, न कथञ्चि- दपि विकल्पन्ते=न सन्देहेनान्यथाकर्तुं शक्यन्ते । अवश्यं फलन्तीत्यर्थ ॥३७०॥ कियन्मात्रः-कियत्प्रमाण (क्या चीज है ?) । वराक =पामर । (वेचारा)। मन्त्र -उपदेश । श्रवणसुखलालस =गानसुखप्रसक्त । गर्ततटाश्रितस्य कस्यचि- न्महतो गर्तस्य तटमाश्रितस्य । सपरिकरस्य सकुटुम्वस्य । मम मण्डूकस्य । पञ्चलं-मृत्यु । समवाय =सङ्घ । भक्षिकागेयसुखात् मक्षिकागानश्रवणसुखात् । गत-श्वभ्रम् ('गड्ढा')।