पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

१३३ श्रितः । ततो मदोत्कर्षाचां तस्य शाखां चटकाश्रितां पुष्कराग्रे- णाकृष्य बभञ्ज। तस्या भङ्गेन चटकाण्डानि सर्वाणि विशीर्णानि । आयुःशेषतया च चटकौ कथमपि प्राणैर्न वियुक्तौ। . अथ चटका स्वाऽण्डभङ्गाभिभूता प्रलापान्कुर्वाणा न किञ्चि- सुखमाससाद । अत्रान्तरे तस्यास्तान्प्रलापाञ्छ्रुत्वा काष्ठकुट्टो नाम पक्षी तस्याः परमसुहृत्तदुःखदुःखितोऽभ्येत्य तामुवाच- भगवति ! किं वृथा प्रलापेन ? । उक्तश्च-- नष्टं मृतमतिक्रान्तं नाऽनुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां विशेपोऽयं यतः स्मृतः ॥ ३६३ ।। तथा च-- अशोच्यानीह भूतानि यो मूढस्तानि शोचति । स दुःखे लभते दुःखं द्वावनों निषेवते ॥ ३६४ ॥ श्लेष्माऽश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । तस्मान्न रोदितव्यं हि क्रियाः कार्याश्च शक्तितः ॥ ३६५ ।। चटका प्राह--'अस्त्येतत् । परं दुष्टगजेन मदान्मम सन्तान- क्षय. कृतः, तद्यदि मम त्वं सुहृत्सत्यस्तदस्य गजापसदस्य कोऽपि वधोपायश्चिन्त्यताम् , यस्यानुष्ठानेन मे सन्ततिनाश- दुःखमपसरति। अन्यच्च- श्रुत्वा-आकर्ण्य वाद)। मदोत्कर्पात्-मदावेशात् । चटकाश्रिता-चटकानीडाश्रिता । पुष्कराग्रेण= शुण्डाग्रेण । तस्या =शाखाया । विशीर्णानि-विकीर्णानि, भग्नानि वा। ('विखर गए 'फूट गए')। चटकौ चटकदम्पती । कथमपि यथाकथञ्चित् । (किसी तरह से)। तस्या चटकाया । तान्-करुणान् । विलापान्=परिदेवनानि । तहुःखदु खिता-चटकादु खेन दुखित । अभ्येत्य-आगत्य । प्रलापेन निरर्थक- शोकशब्दै । अशोच्यानि भूतानि इह य शोचति स दु खेपि पुनर्दु खोलभते । अशोच्यशोचनं दुखे पुनर्दु खसमन्वयरूपमेवेत्याशय ॥ ३६४ ॥ . बान्धवैर्मुक्त-श्लेष्माश्रु कफान्वितमश्रुजाल, प्रेत =मृत , अवशपरवशः,। क्रिया =और्वदेहिक कर्म। शक्तित =यथाशक्ति ॥३६५॥ गजापसदस्य-अस्य