पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२

  • पञ्चतन्त्रम् *

[१ मित्र- दुरधिगमः परभागो यावत्पुरुषेण पौरुपं न कृतम् । जयति तुलामधिरूढो भास्वानपि जलदपटलानि ॥३६०|| टिट्टिभ्याह-यदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठान कार्यम् , तदन्यानपि विहङ्गमानाहूय सुहृजनसहित एवं समा- चर । उक्तञ्च-- बहूनामप्यसाराणां समवायो हि दुर्जयः । तृणैरावेष्टयते रज्जुर्येन नागोऽपि बद्धयते ।। ३६१ ॥ तथा च- चटका काष्ठकुट्टेन मक्षिका दर्दुरैस्तथा । महाजनविरोधेन कुञ्जरः प्रलयं गतः ।। ३६२ ।। टिट्टिभ आह-कथमेतत् ?' सा प्राह-- १५. चटकदम्पतिकुञ्जरकथा कस्मिंश्चिद्वनोद्देशे चटकदम्पती तमालतरुकृतनिलयौ प्रति वसतः स्म। अथ तयोर्गच्छताकालेन सन्ततिरभवत् । अन्यस्मि- नहनि प्रमत्तो वनगजः कश्चित्तं तमालवृक्षं धर्मार्तश्छायार्थी समा- गगा। तथा नवनदीशतानि गृहीत्वा । सिन्धु =सिन्धुनद । (अष्टादशनदी- शतै =१८०० नदियो से )। तं समुद्रम् । विग्रुषवाहिन्या विन्दुमात्रजलवन- समर्थया । अश्रद्धेयेन=विश्वासाऽयोग्येन। अनिर्वेदः अकातरत्वं । मूलं कारणम् । लोहसन्निभा दृढतरा ॥ ३५९ ॥ परभाग: महत्त्वं, विजयश्च । पौरुष-पराक्रम, साहसम्छ । तुलां तुलाराशि, दिव्यशपथभेदं च। जलदपटलानि मेघवृन्दानि॥३६॥ विहङ्गमान पक्षिणः। एवं समुद्रेण विग्रहम् । बहूनाम्-असाराणा-तुच्छाना- मपि । समवाय =समूह । आवेष्ट्यते निर्मीयते। यया रज्ज्वा । नाग:-गज ॥३६१॥ चटका-पक्षिभेद । ( चिड़िया ) काष्ठकुट्टेन तदाख्यपक्षिभेदेन ( कठ- फोरा )। 'काष्टकूटेने ति क्वचित्पाठः । 'मिलितेति शेष ,। मक्षिका दर्दुरै - 'मिलिते ति शेप । इत्थं-महाजनविरोधेन अनेकजनविरोधात् । कुञ्जर -गज । प्रलयं मृत्युम् ॥ 'दर्दुरेण चेत्यपि पाठः ॥ ३६२ ॥ तमालतस्कृतनिलयौ तमालवृक्षकृतनीडौ । गच्छता कालेन व्यतीतेन बहुतिथेन कालेन। (कुछ दिन के 1 %D