पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, तथा च- भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

विशेपात्परिपूर्णस्य याति शत्रोरमर्पणः । आभिमुख्यं शशाङ्कस्य यथाऽद्यापि विधुन्तुदः ।। ३५५ ।। तथा च- प्रमाणादधिकस्यापि गण्डश्याममदच्युतेः । पदं मूर्ध्नि समाधत्ते केसरो मत्तदन्तिनः ॥ ३५६ ।। बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् । तेजसा सह जाताना वयः कुत्रोपयुज्यते ? ।। ३५७ ।। हस्ती स्थूलतरः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो ? दीप प्रज्वलिते प्रणश्यति तमः कि दीपमात्रं तमः ? | वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रो गिरि- स्तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः?॥३५८ तदनया चञ्च्वाऽस्य सकलं तोयं शुष्कस्थलतां नयामि ।' टिट्टिभ्याह-भोः कान्त ! यत्र जाह्नवी नवनदीशतानि गृहीत्वा नित्यमेव प्रविशति, तथा सिन्धुश्च, तत्कथं त्वमष्टादशनदीशतैः पूर्यमाणं तं विप्रुषवाहिन्या चञ्च्वा शोषयिष्यसि ?, तत्किम- श्रद्धेयेनोक्तेन । टिटिभ आह-प्रिये ! अनिर्वेदः श्रियो मूलं चञ्चूम लोहसन्निभा । अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ? ॥३५९ ॥ युध्यन्ते। विधुन्तुद राहु , विशेपात्-विशेषत पूर्ण चन्द्रमेव वाधते न क्षीण- मिति-अमर्षणा उत्साहशक्तिमन्तो महतामपि शत्रूणामुपरि क्रुद्धा' प्रचलन्त्येवे- त्याशयः ॥ ३५५ ॥ प्रमाणात कायप्रमाणात् । गण्डात् श्यामस्य मदस्य च्युति- र्यस्यासौ-तस्य-मदमलिनगण्डस्थलस्य, मत्तदन्तिनः शिरसि-पद-चरणम् । धत्ते-स्थापयति ॥ ३५६ ॥ भूभृतां पर्वतानाम् । हस्तिमात्र हस्तिप्रमाण । दीपमानं किं न दीपमात्रं । किन्त्वतिप्रमाणम् । कि वज्रमात्र ? नैव, किन्त्वति- महान् । अत स्थूलेषु-वपुषाऽधिकेषु । क प्रत्यय =का खल्वास्था ? ( क प्रत्यय ? क्या रक्खा है। 2 ) ॥ ३५८ ॥ अस्य-समुद्रस्य । शुष्कस्थलता-भूमितुल्यता। कान्त-प्रिय । जाह्नवी- +