पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३०

  • पञ्चतन्त्रम् *

[१ मित्र- पितृपैतामहिकमेतत्सरस्त्यक्तुं युज्यते! । यद्यायुःक्षयोऽस्ति तदन्यत्र गतानामपि मृत्युभविष्यत्येव । उक्तञ्च- अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ॥४५२|| तदहं न यास्यामि, भवद्भ्यां च यत्प्रतिभाति तत्कर्तव्यम् ।' अथ तस्य तं निश्चयं ज्ञात्वाऽनागतविधाता प्रत्युत्पन्नमतिश्च- निष्क्रान्ती सह परिजनेन । अथ प्रभाते तैर्मत्स्यजीविभिर्जालै. स्तजलाशयमालोड्य यद्भविष्येण सह तत्सरो निर्मत्स्यतांनीतम्। अतोहं ब्रवीमि-'अनागतविधाता च-'इति । ॥ तच्छ्रुत्वा टिट्टिभ आह-'भद्रे । किं मां यद्भविष्यसदृशं संभा- वयसि ?। तत्पश्य मे बुद्धिप्रभावं यावदेनं दुष्टसमुद्रं स्वचश्वा शोषयामि ।' टिट्टिभ्याह-अहो! कस्ते समुद्रण सह विग्रहः ? । तन्न युक्तमस्योपरि कोपं कर्तुम् । उक्तञ्च- पुंसामसमर्थानामुपद्रवायात्मनो भवेत्कोपः। पिठरं ज्वलदतिमात्रं निजपार्थानेव दहतितराम् ॥ ३५३ ॥ तथा च- अविदित्वाऽत्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो नाशं याति वह्नौ पतङ्गवत् ॥ ३५४ ॥ टिट्टिभ आह-प्रिये ! मा मैवं वद, येषामुत्साहशक्तिर्भवति ते खल्पा अपि गुरुन्विक्रमन्ते । उक्तञ्च- युज्यते। आयु क्षय -जीवनकालसमाप्तिः। विसर्जितः त्यक्तः ॥ ३५२ ॥ प्रतिभाति-रोचते। निष्क्रान्तौ चलितौ। सह परिजनेन-कुटुम्बेन सहैव । यद्भविष्येणेति । यद्भविष्य.-अन्ये च तत्रत्या मत्स्या हता इत्यर्थ । भद्रे = सुमुखि !, सुभगे || विग्रह -युद्धम् । अस्य-समुद्रस्य। असमर्थाना कोप- आत्मन उपद्रवाय भवति । यथा-पिठर-स्थाली ('वटलोही)। अग्निसम्बन्धात्- अतिमात्रं ज्वलत् । निजपार्थानेव दहति, न पाचकादीनिति भाव. ॥ ३५३ ॥ समुत्सुकः-सहसा युद्धाय प्रवर्त्तमान ॥३५४॥ गुरूनपि विक्रमन्ते-तै सहापि