पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

धाता सर्वान्मत्स्यानाहूयेदमूचे-'अहो ! श्रुतं भवद्भिर्यन्मत्स्यजी. विभिरभिहितं, तद्रात्रावपि गम्यतां किञ्चिन्निकटं सरः। उक्तञ्च- अशक्तैर्बलिन शत्रोः कर्तव्यं प्रपलायनम् । संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर्भवेत् ।। ३४८ ॥ तन्नून प्रभातसमये मत्स्यजीविनोऽत्र समागम्य मत्स्यसंक्षयं करिष्यन्ति-एतन्मम मनसि वर्तते । तन्न युक्तं साम्प्रतं क्षणम. प्यत्रावस्थातुम् । उक्तञ्च- • विद्यमाना गतिर्येपामन्यत्रापि सुखावहा । ते न पश्यन्ति विद्वांसो देशभङ्ग कुलक्षयम् ।। ३४९ ।। तदाकर्ण्य प्रत्युत्पन्नमतिः प्राह-'अहो ! सत्यमभिहितं भवता ममाप्यभीष्टमेतत् , तदन्यत्र गम्यताम्'-इति । उक्तञ्च- परदेशभयाद्भीता बहुमाया नपुंसकाः । स्वदेशे निधनं यान्ति काकाः कापुरुपा मृगा. ।। ३५० ॥ यस्यास्ति सर्वत्र गतिः स कस्मात्स्वदेशरागेण हि याति नाशम् । 'तातस्य कूपोऽय'मिति ब्रुवाणा. क्षारं जलं कापुरुपाः पिबन्ति ॥३५१।। अथ तत्समाकर्ण्य प्रोच्चैविहस्य यद्भविष्यः प्रोवाच-'अहो ! न भवद्भ्यां मन्त्रितं सम्यगेतदिति । यतः किं वाङ्मात्रेणापि तेषां प्रतिसामग्रीलाभ.। बलिन शत्रोरित्यस्य आक्रमणे सति विधातु'मिति शेष -अश- तै =असमर्थे । तेषा=निर्वलानाम् ॥३४८॥ विद्यमानेति । तेषामन्यत्रापि सुखा- वहा गतिविद्यमाना भवेत्-ते विद्वासो देशभङ्गं-देशनाशं, कुलक्षयञ्च न पश्यन्ति ॥ ३४९ ॥ बहुमाया:-कपटपरा । निधनं मरणम् ॥ ३५० ॥ स्वदेशरागेण= 'मम स्वदेशोऽय'मित्यनुरागेण । यस्येति । यस्य पुंस' सर्वत्र सर्वेषु देशेषु, गति = गमनशक्तिरस्ति स स्वदेशरागेण कस्मान्नाशं याति १ । तातस्य-पितु कूप- इति इत्थ,ब्रुवाणा =भाषणपरा प्रशसापरा , कापुरुषा =मूर्खा अलसाश्च, क्षारं= E: कटुतरं कूपोदकं पिवन्ति ॥ ३५१ ॥ भवह्यामेतत्सम्यक्ष मन्त्रितम् । किं-तेपां-धीवराणा। वाङ्मात्रेण वचन- श्रवणमात्रादेव । पितृपैतामहिक कुलपरम्पराप्राप्तम् ('पुस्तैनी')। किं युज्यते --