पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १०.) बद्धवा क्षेत्रपाल. स्वार्थभ्रंशकेन । रासभ आह–'धिक् धिडमूर्ख ! किमहं न जानामि गीतम् । तत् कथं भगिनीसुत ! मामनभिज्ञ वदन्निवारयसि ? । शृगाल आह-माम ! यद्येवं तदहं तावद्वृतेरिस्थित क्षेत्रपालमवलोकयामि । त्वं पुनः स्वेच्छया गीतं कुरु'। तथा अनुष्ठिते रासभरटनमाकर्ण्य क्षेत्रपः क्रोधाद्दन्तान् घर्षयन् प्रधावित । यावद्रासभो दृष्टस्तावल्लगुडप्रहारैस्तथा हतो यथा प्रताडितो भूपृष्ठे पतितः। ततश्च सच्छिद्रोलूखलं गले प्रसुप्तः । रासभोऽपि स्वजातिस्वभावाद्गतवेदनः क्षणेन अभ्युत्थितः । ३५ २ 'वरं वुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा । बुद्धिहीना विनश्यन्ति यथा ते सिहकारकाः' । अमुं श्लोकमुद्दिश्यैका कथा स्वसंस्कृतेन वर्णनीया । ३ अधोलिखितवाक्येषु त्रयाणां स्वसंस्कृतेन व्याख्या कार्या- (क) ते च दारिद्योपहता. परस्परं मन्त्रं चक्रु । (ख) तत्स्थानं खनित्वा निधि गृहीत्वा व्याघुट्यताम् । (ग) यदा त्वमिव कश्चित् धृतसिद्ध वर्तिरेवमागत्य त्वामालापयिष्यति तदा तस्य मस्तके चटिष्यति । (घ) वयं सर्वविद्यापारे गताः , तदुपाध्यायमुत्कलापयित्वा स्वदेशे १८ - गच्छाम १२ '१९३७ अपरीक्षितकारके प्रश्नाः १ निम्नासितगद्यभागयोः सरलहिन्दीभाषायामनुवादः कार्य्य:- (क) अथ स समालोक्य प्रहृष्टमना यथासन्नकाष्ठदण्डेन तं शिरसि अता- डयत् । सोऽपि सुवर्णमयो भूत्वा तत्क्षणाद्भूमौ निपतित । अथ तं स श्रेष्ठी निमृतं स्वगृहमध्ये कृत्वा नापितं सन्तोष्य प्रोवाच, 'तदेतद्धनं वस्त्राणि च मया दत्तानि गृहाण, भद्र ! पुन कस्यचिन्नास्येयो वृत्तान्तः।' नापितोऽपि स्वगृहे गत्वा व्यचिन्तयत् , नूनमेते सर्वेऽपि