पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

११७ तेऽपि सर्वे काकादयोऽप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः । अथ तान्सिहः प्राह-भोः ! अन्विष्यतां कुत्रचित्किञ्चित्स- त्त्वं, येनाहमेतामपि दशां प्राप्तस्तद्धत्वा युष्मद्भोजनं सम्पा- दयामि ।' अथ ते चत्वारोऽपि भ्रमितुमारब्धाः, यावन्न किञ्चित्सत्त्वं पश्यन्ति तावद्वायसशृगालौ परस्परं मन्त्रयतः। शृगाल आह- 'भो वायस ! किं प्रभूतभ्रान्तेन, अयमस्माकं प्रभोः क्रथनको विश्वस्तस्तिष्ठति, तदेनं हत्वा प्राणयात्रां कुर्मः। वायस आह-'युक्तमुक्तं भवता, परं स्वामिना तस्याऽभय- प्रदानं दत्तमस्ति-'न वध्योऽयमिति।' शृगाल आह-'भो वायस! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करि- प्यति । तत्तिष्ठन्तु भवन्तोऽत्रैव, यावदहं गृहं गत्वा प्रभोराज्ञां गृहीत्वा चाऽऽगच्छामि।' एवमभिधाय सत्वरं सिंहमुद्दिश्य प्रस्थितः। अथ सिंहमा. सायेदमाह-'स्वामिन् ! समस्तं वनं भ्रान्त्वा वयमागताः, न किञ्चित्सत्त्वमासादित, तत्कि कुर्मों वयम् ? संप्रति वय वुभु- क्षया पदमेकमपि प्रचलितुं न शक्नुमः । देवोऽपि पथ्याशी वर्तते, तद्यदि देवादेशो भवति तदा क्रथनकपिशितेनाऽद्य पथ्यक्रिया , क्रियते।' अथ सिंहस्तस्य तदारुणं वचनमाकर्ण्य सकोपमिदमाह- 'धिक्पापाधम ! यद्येवं भूयोऽपि वदसि ततस्त्वां तत्क्षणमेव र्थ्यात् चेष्टाया शरीरस्यासमर्थत्वात् । अप्रभुत्वेन प्रभुप्रसादालाभेन, अशक्त- त्वाच्च । भेजु प्रापु । एतामपि क्षीणामपि । तत् सत्त्वम् । मन्त्रयत =विचारं चक्रतु ॥ प्रभूतेन वहुलेन । भ्रान्तेन भ्रमणेन । प्रभोविश्वस्त =राजानुगृहीत । प्राणधारणा-शरीरयात्राम् । परं-किन्तु।वधं-कथनकवधं । पथ्याशी-पथ्यभोजी। ('पथ्य लेते है) । पिशितेन रुधिरेण । पथ्यक्रिया भवता पथ्यस्य सम्पादनम् । १. 'अस्ति' । २ 'अनुमन्यते' पा० ।