पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम्

[१ मित्र- तस्य चाऽनुचरा अन्ये द्वीपिवायसगोमायवः सन्ति । अथ कदा. चित्तरितस्ततो भ्रमद्भिः सार्थभ्रष्टः क्रथनको नामोष्ट्रो दृष्टः । अथ सिंह आह-'अहो ! अपूर्वमिदं सत्त्वं, तज्ज्ञायतां किमेतदारण्यक ग्राम्यं वा' ?-इति । तच्छुत्वा वायस आह-भोः स्वामिन् । ग्राम्योऽयमुष्ट्रनामा जीवविशेषस्तव भोज्यः, तव्यापाद्यताम् ।' सिंह आह-'नाऽहं गृहमागतं हन्मि । उक्तञ्च- गृहे शत्रुमपि प्राप्त विश्वस्तमकुतोभयम् । यो हन्यात्तस्य पापं स्याच्छतब्राह्मणघातजम् ।। ३१२॥ तदभयप्रदानं दत्त्वा मत्सकाशमानीयतां-येनाऽस्यागमनका. रणं पृच्छामि । अथाऽसौ सर्वैरपि विश्वास्याऽभयप्रदानं दत्त्वा मदोत्कटसकाशमानीतः, प्रणम्योपविष्टश्च। ततस्तस्य पृच्छत- स्तेनाऽऽत्मवृत्तान्तः सार्थभ्रंशसमुद्भवो निवेदितः। सिंहेनोक्तम्-'भोः ऋथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारोद्वहनकष्टभागी भूयाः, तत्रैवाऽरण्ये निर्विशङ्को मरकतस- शानि शष्पाग्राणि भक्षयन्मया सह सदैव वस।' सोऽपि तथा'- इत्युक्त्वा तेषां मध्ये विचरन्न कुतोऽपि भयमिति सुखेनाऽऽस्ते। अथाऽन्येधुर्मदोत्कटस्य महागजेनाऽरण्यचारिणासह युद्धम भवत् । ततस्तस्य दन्तमुसलप्रहा रैर्व्यथा सञ्जाता। व्यथितः ‘कथमपि प्राणैर्न वियुक्तः। अथ शरीराऽसामर्थ्यान्न कुत्रचित्पदमपि चलितुं शक्नोति । प्रदेशे। द्वीपिवायसगोमायव =व्याघ्रकाकजम्बुका । सार्थभ्रष्ट =वणिग्जनसमूह- भ्रष्ट । आरण्यक-वनचारि। ('जङ्गली')। विश्वस्त विश्वासमुपगतम् । अकुतो- भयम्-निर्विशङ्कम् ॥ ३१२ ॥ अस्य-उष्ट्रस्य । असौ-उष्ट्रः । सर्वै वायसादिभिः । तस्य सिहस्य । सार्थ- श्रंगसमुद्भव =वणिक्सङ्घवियोगमूल । भूय.-पुनरपि। शष्पाग्राणि-घासाङ्कुरान् । इति इत्यस्मात्कारणात् । सिहरक्षितत्वेन निर्भय । अरण्यचारिणा-वन्येन । तस्य-सिहस्य । गजस्य दन्ता एव मुसला , तैर्ये प्रहारा =आघाता , तै.। कथमपि-आयु शेषादेव । प्राणैर्न वियुक्त.-न मृत । शरीराऽसाम