पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- वधिष्यामि, यतो मया तस्याऽभयप्रदानं प्रदत्तं, तत्कथं स्वय. मेव व्यापादयामि ? । उक्तञ्च- न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम् । यथा वदन्तीह बुधः प्रधानं सर्वप्रदानेप्वभयप्रदानम् ॥ ३१३ ॥ तच्छ्रुत्वा शृगाल आह-स्वामिन् ! यद्यभयप्रदानं दत्वा वधः क्रियते तदैष ते दोपो भवति, पुनर्यदि देवपादानां भक्त्या स आत्मनो जीवितव्यं स्वयमेव प्रयच्छति, ततो न दोषः। यद्यदि स स्वयमेवात्मानं वधाय नियोजयति तदा वध्यः। अन्यथाऽ- स्माकं मध्यादेकतमो वध्य-इति।' यतो देवपादाः पथ्याशिन, क्षुन्निरोधादन्याहशी दशां यास्यन्ति, तत्किमेतैः प्राणैरस्माकं, ये स्वाम्यर्थे न यास्यन्ति । अपरं-यदि स्वामिपादानां किञ्चि- दनिष्टं भविष्यति तदा पश्चादप्यस्माभिर्वह्निप्रवेशः कार्य एव । उक्तञ्च- यस्मित्कुले यः पुरुपः प्रधान से सर्वयः परिरक्षणीयः । तस्मिन्विनष्टे हि कुलं विनष्टंन नाभिभङ्गे ह्यरका वहन्ति ।। ३१४ ॥ , दारुण-क्रूरम् । तस्य क्रथनकस्य । प्रधानम्-उत्तमम् । एष दोष =विश्व- स्तवधजं पापम् । स =उष्ट्र । जीवितव्य-प्राणान् । प्रयच्छति समर्पयति । नियोजयति ददाति । तत्-तदा । अन्यथा यदि स्वयं न स आत्मान वधाय ददाति तदा । एकतम =एक कश्चित् । देवपादा =भवन्त । पूजायामत्र पाद- शब्दो वहुत्वञ्च । पथ्याशिन =अचिरनिर्मुक्तरोगा । क्षुन्निरोधात् बुभुक्षानिरो- धात् । अन्यादृशीम अनिर्वचनीयाम्, क्षीणतराम् । एतै अस्मदीये । पश्चा- दपि भवन्मरणानन्तरमपि । वह्निप्रवेश =स्वामिवियोगादग्नौ पात । अनिष्ट= मरणम् । प्रधान मुख्य । तस्मिन् प्रधाने। आशु-शीघ्रमेव । नश्येत् विलय गच्छेत् । नाभिभङ्गे रथचक्रमध्यस्थपिण्डिकाभङ्गे। अरका रथाङ्गदण्डा । अरा एव-अरका. । स्वार्थिक कन् । 'अरो ना तु चक्रविष्कम्भदारुणीति केशव । १ 'भक्षणीय' इति पा०। २ 'अन्याम्' । ३ 'पृष्ठतोऽपि' । ४ 'प्रधान'। ५'सदैव यतन स रक्षणीय'। ६ तस्मिन्विनष्टे कुलसारभूते' इनि, 'कुल विनश्येत्' इति च पा० ।