पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  1. अभिनवराजलक्ष्मीविराजितम् *

१०३ तथाच- सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वातौ सागरशुक्तिकुक्षिपतितं तज्जायते मौक्तिकं, प्रायेणाऽधममध्यमोत्तमगुणः संवासतो जायते ॥२७॥ तथा च- असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् । दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ।। २७४ ॥ अत एव सन्तो नीचसङ्ग वर्जयन्ति । उक्तञ्च- न ह्यविज्ञातशीलस्य प्रदातव्य' प्रतिश्रयः । मत्कुणस्य च दोषेण हता मन्दविसर्पिणी ।। २७५ ।। पिङ्गलक आह-कथमेतत् ? । सोऽब्रवीत्- ९. मन्दविसर्पिणी-मत्कुण कथा । अस्ति कस्यचिन्महीपतेः कस्मिश्चित्स्थाने मनोरमं शयन- स्थानम् । तत्र शुक्लतरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी यूका प्रतिवसति स्म। सा च तस्य महीपते रक्त- नाम श्वेता स्ताहगेव भवती'त्यत्र सन्देहो नास्तीति सम्बन्ध ॥ २७२ ॥ सन्तप्तायसि-सन्तप्तलोहखण्डादौ । संस्थितस्य पयस जलस्य । नामापि न ज्ञायते । तदेव-जलमेव । मुक्ताकारतया राजते शोभते । नलिनीपत्रस्थित= कमलिनीदलगतं सत् । स्वाताविति । समुद्रस्थशुक्तिकोटरे स्वातिनक्षत्रे पतित तत्-जल-तन्मुक्ताकारतया परिणमतीत्यर्थ । संवासत =सम्पर्कविशेषान्नर - उत्तमो मध्यमोऽधमो वा जायते ॥ २७३ ।। असतां दुष्टानाम् । साधव -सज्जना । विक्रिया विकारं । प्रसङ्गेन-सम्प- कण । भीष्मोऽपि गोहरणे विराटनगरे गवाहरणार्थ । गत =यात ॥ २७४ ॥ अविज्ञातशीलस्य अविज्ञातस्वभावस्य । प्रतिश्रयः-आश्रय । मत्कुणस्य% खट्वाकीटस्य ('खटमल' इति प्रसिद्धस्य ) दोषेण अपराधेन । मन्दविसर्पिणी नाम यूका ( 'जू 'चीलर')। हता-राजपुरुषैर्हता ॥ २७५ ॥