पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२

  • पञ्चतन्त्रम् *

[१ मित्र- तद्रोहवुद्धरपि मयाऽस्य न विरुद्धमाचरणीयम्'। दमनक आह-स्वामिन् ! नैष राजधर्मो यद्रोहवुद्धिरपि क्षम्यते । उक्तञ्च- तुल्यार्थ तुल्यसामर्थ्य मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते ।। २७१ ।। अपरं-'त्वयाऽस्य सखित्वात्सर्वोऽपि राजधर्मः परित्यक्तः, राजधर्माऽभावात्सर्वोऽपि विरक्तिगतः । यः सञ्जीवकः स शष्प. भोजी, भवान्मासाऽदः, तव प्रकृतयश्च। तत्तवाऽवन्ध्यव्यवसाय बाह्यं कुतस्तासां मांसाशनम् ? । तद्रहितास्तास्त्वां त्यक्त्वा यास्यन्ति, ततोऽपि त्व विनष्ट एव । अस्य सङ्गत्या पुनस्ते न कदाचिदाखेटके मतिर्भविष्यति । उक्तञ्च- यादृशैः सेव्यते भृत्यैर्यादशांश्चोपसेवते । कदाचिन्नाऽत्र सन्देहस्ताहग्भवति पूरुपः ।। २७२ ।। दुख नास्त्येवेति भावः ॥ २६९ ॥ द्रोहवुद्धे =मविरुद्धं चिन्तयतोऽपि, अस्य= सञ्जीवकस्य । विरुद्ध विपरीतम् । राजधर्म =राजव्यवहार । तुल्यार्थ-समान- वित्तम् । तुल्यसामर्थ्य-समानवलम् । मर्मजं रहस्यवेत्तारम । व्यवसायिनम= उद्योगशीलम् । अर्धराज्यहर-राजतुल्यतया अर्धराज्यहरम् । प्रजाभि स्तूयमान, मृत्यं य = राजा । न हन्यात्स स्वय हन्यते-तेनाऽमात्यादिना हन्यते ॥२७१॥ सखित्वात-मित्रत्वात्, राजधर्म =प्रजापालनादि.। 'त्वये ति शेष । परिजन = अनुजीविवर्ग । य सञ्जीवकस्तवानुचरमुख्य स्थित -रस तु गप्पभोजी. अत - कुतोऽनुजीविजनाना ततो भोजनलाभ इत्यन्वयः। तव प्रकृतय =त्वत्प्रजानुचर- सुहृदादिवर्गोऽस्मादृश । 'मासादा'-इति शेप । 'स्वाम्यमात्यमुहत्कोशराष्ट्रदुर्ग- वलानि च। सेनाङ्गानि प्रकृतय.- .-पौराणा श्रेणयोऽपि च ॥' इत्यमर । तत: तस्मात् । तव-भवत । अवन्ध्यव्यवसाय वायं त्वदीयप्रचण्डाऽमोघपराक्रम विना । तासा-त्वत्प्रकृतीनाम् । मासागनं-मासात्मक भोजनम् । कुन - कथ स्यात। त्वत्पराक्रमेणेव त्वदनुचराणा मांसभोजनं भवति, त्वया चेदाना पराक्रमन्त्यक्त एवेति कथं प्रकृतिरक्षण स्यादिति भाव । तद्रहिता भोजनवजिता.। तत प्रकृति विरहात् । नष्ट. विनष्ट एव । अस्य-गप्पभोजिनो वृपभस्य। आरोटके-मृग- याया। मति =थुद्धि'। यादृशे =उत्तमाऽधममध्यम । उपमेयते भजति । 'पुष्प-