पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् । अशक्ता एव सर्वत्र नरेन्द्र नरेन्द्रं पर्युपासते ।। २६४ ॥ पिङ्गलक आह-भद्र ! तथापि मम तस्योपरि चित्तवृत्तिर्न विकृतिं याति । अथवा साध्विदमुच्यते- अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः ।। कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ।। २६५ ।। दमनक आह-'अत एवाऽयं दोपः । उक्तञ्च- यस्मिन्नेवाऽधिकं चक्षुरारोपयति पार्थिवः । अकुलीनः कुलीनो वा सं श्रियो भाजनं नर॥ २६६ ॥ अपरं-'केन गुणविशेषेण स्वामी सञ्जीवकं निर्गुणकमपि निकटे धारयति' ?। अथ देव! यद्येवं चिन्तयसि-'महाकायोऽयम्, अनेन रिपून्व्यापादयिष्यामि', तदस्मान्न सिध्यति, यतोऽयं शप्पभोजी। देवपादानां पुनः शत्रवो मांसाऽशिनः । तद्रिपुसाधनमस्य किन्तु मृत्योपि भृत्यभावं जहाति। अत 'मृत्यो मृत्य एवेति व्यभिचरितमेवे- त्याशय । पुरुषो नास्ति यो राज्ञां श्रियं-राजलक्ष्मी न कामयते-अभिलपति। यद्वा-राज्ञां पुरुष: राजसेवक इत्यन्वय , श्रियम् राजथियम् । सर्वेऽपि राजपदम- भिवाञ्छन्त्येवेत्याशयः। किन्तु अशक्ताः-गक्तिविकलतयैव राजानं पर्युपासते मृत्यतया सेवन्ते ॥ २६४ ॥ विकृति न याति मम चित्ते तं प्रति विरोधभावो नोदेति ॥ अनेकदोषदुष्ट.-रोगादिदुष्टोऽपि । कायः गरीरम् । कस्य न वहभः न प्रियः। व्यलीकानि=विरुद्धानि कुर्वन्नपि । प्रियः-प्रियजन, प्रिय एव न द्वेप्यः ॥ २६५॥ अय दोप. राजविपत्तिरुपः। यस्मिन्नेव पुस्पे पार्थिव - अधिकं चक्षुरारोपयति-स्नेहमाविष्करोति । स नर--योग्यो वा, अयोग्यो वा । राजलक्ष्म्याः, सम्पत्तेर्वा, भाजनं पात्र भवति ॥ २६ ॥ अपर-किश्च । स्वामी भवान् । केन गुणविगेपेण निकटे धारयति-तं समीपे स्थापयति । 'महाकाया- ऽयं वृषभः, एतत्साहाय्येन शत्रून्मारयामीत्येवं यदि भवान् चिन्तयति, तन- भवच्चिन्तितम् । अस्मात्पभात् । शप्पभोजी-बासाहारी । पुन किन्तु, १ 'स लक्ष्म्या हरते मनः । इति पाठान्तरम् ।