पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

1 साहाय्येन न भवति । तस्मादेनं दूषयित्वा हन्यताम्'-इति । पिछलक आह- उक्तो भवति य. पूर्व 'गुणवा'निति संसदि। तस्य दोपो न वक्तव्यः प्रतिज्ञाभङ्गभीरुणा ।। २६७ ।। अन्यच्च-मयाऽस्य तव वचनेनाऽभयप्रदानं दत्तं, तत्कथं स्वयमेव व्यापादयामि ? । सर्वथा सञ्जीवकोऽयं सुहृदस्माकं, न तं प्रति कश्चिन्मन्युरस्ति । उक्तञ्च- 'इत' स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । विषवृक्षोऽपि संवयं स्वयं छेत्तुमसाम्प्रतम् ॥ २६८ ।। आदौ न वा प्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोपणीयः । उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जा भूमौ स्थितस्य पतनाद्भयमेव नास्ति ।। उपकारिपु य. साधुः साधुत्वे तस्य को गुणः ? । अपकारिपु य साधुः स साधुः सद्भिरुच्यते ।। २७० ॥ देवपादाना श्रीमच्चरणाना, तवेति यावत् । रिपव =सिंहादय । मासा- गिन =मासभोजिन । रिपुसाधनं शत्रुनाशनम् । एन-सञ्जीवक । दूपयि- त्वा-सन्दूष्य । य पूर्व ससदि-सभायाम् । गुणवानिति-, उक्त प्रशंसित , तस्य दोष-प्रतिज्ञाभङ्गभीरुणा-स्वोक्तिविरोधभयातुरेण न वक्तव्य ॥ २६७ ॥ अस्य% सञ्जीवकस्य । तव दमनकस्य । व्यापादयामि-हन्मि । सर्वथा-सर्वतो भावेन । मुहृत्-मित्र, हितेपी । त प्रति मम कश्चिदपि-मन्यु. कोव । न= वास्ति । इत इति । इत =मत्त प्रजापतेरेव । स =तारकासुर । प्राप्तश्री =लब्धवरो जात प्रभावश्च । इत =मत्त एव । क्षय-नाशम् । नार्हति-न योग्य । स्वयम् आत्मना। छेत्तुम् असाम्प्रतम्=न युज्यते ॥ २६८ ॥ आदाविति । प्रणयि- नाम्-'उपरीति शेष । प्रणय -स्नेह । 'अपि देय' इति केचित्पठन्ति । दत्त % विहित । 'प्रणय' इति शेप । परिपोषणीय =वर्द्धनीय । उत्क्षिप्य उपरि नीत्वा । स्नेहं वर्द्धयित्वा । क्षिपति-नीचैर्नयति, तदेव लज्जा करोति सन्तापयति। भूमौ स्थितस्येति । यथा-भूमौ स्थितो न पतति, तथैव स्नेहाऽनुवन्धाऽभावे तन्नाशज