पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद]

  • अभिनवराजलक्ष्मीविराजितम् *

साराऽसारता, तदहमेन हत्वा सकलमृगाधिपत्यं त्वत्साचिव्य- पदवीसमन्वित करिष्यामि। पिङ्गलकोऽपि तद्वज्रसारप्रहारसदृशं दारुणं वचः समाकर्ण्य मोहमुपगतो न किञ्चिदप्युक्तवान् । दमनकोऽपि तस्य तमाकार. मालोक्य चिन्तितवान्-'अयं तावत्सञ्जीवकनिबद्धरागः, तन्नून- मनेन मन्त्रिणा राजा विनाशमवाप्स्यति',-इति । उक्तश्च- एकं भूमिपति. करोति सचिव राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः, स च मदादास्येन निर्विद्यते । निर्विण्णस्य पद करोति हृदये तस्य स्वतन्त्रस्पृहा । स्वातन्त्र्यस्पृहया तत स नृपते. प्राणेष्वभिद्रुह्यते ।। २६३ ।। तकिमत्र युक्तम् ?-इति । पिङ्गलकोऽपि चेतनां समासाद्य कथमपि तमाह-'सञ्जीवकस्तावत्प्राणसमो भृत्य, स कथं ममो. परि द्रोहबुद्धि करोति !। दमनक आह-'देव ! भृत्यो भृत्य-इति न एकान्तिकमेतत् । उक्तश्च- तत्त्वम् । एनं सिहं। तव साचिव्यपदव्या समन्वित, त्वत्साचिव्यपदवीसमन्वि- तम् । तुभ्य मन्त्रिपदवी दत्त्वेति यावत् । वज्रवत्सार यस्यासौ तेन-वज्रसारण य प्रहारस्तेन सदृश वज्रकठोरप्रहारोपमं । दारुण-क्रूर। समाकर्ण्य श्रुत्वा । मोह-मूर्छाम् । उपगत प्राप्त । तस्य=सिहस्य। तमाकारं मौनमूर्छादि- लक्षिता चित्तवृत्ति, मुखाकृतिञ्च । अय-सिह । सञ्जीवकनिवद्धराग =सञ्जीवकनेहा- सक्त । अनेन सञ्जीवकेन । मन्त्रिणा सचिवेन। राजा सिहः । एकमिति । एक मन्त्रिणमन्य वा। प्रमाण-प्रमाणभूतं सर्वाधिकारिणम् । त मन्त्रिणम् । मोहात्-मौात् । मद -गर्व । दास्येन-राजसेवया । निर्विद्यते खिद्यते । दुखमनुभवति । निविण्णस्य-टु खितस्य । स्वतत्रस्पृहा-स्वातन्त्र्ये-- स्वप्रभुत्वविषये लालसा। अभिद्रुह्यते-नृपति हन्तु व्यवस्यति ॥२६३॥ युक्तम् = उचितम् । चेतना-सज्ञा। समासाद्य लब्ध्वा । कथमपि कथमपि धृतधैर्य । एकान्तिक-नियतम् । 'अनैकान्तिक मिति पाठे-अनैकान्तिक व्यभिचारि । मृत्य सर्वदा भृत्यभावमेव भजते, न कदाचिदपि ततो व्यभिचरतीति नास्ति नियमः, १'अनैकान्तिकमेतत् । ,