पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- नादः समुत्थितः। अथ तेन तं शत्रु मत्वाऽऽत्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः। शशकोऽपि हृष्टमनाः सर्वमृगाना नन्द्य तैः प्रशस्यमानो यथासुखं तत्र वने निवसति स्म । अतो- ऽहं ब्रवीमि-'तस्य वुद्धिर्बलं यस्य-'इति । तद्यदि भवान्कथयति,-तत्तत्रैव गत्वा तयोः स्वबुद्धिप्रभावेण मैत्रीभेदं करोमि ।' करटक आह-भद्र! यद्येवं तर्हि गच्छ, शिवा- स्ते पन्थानः सन्तु, यथाभिप्रेतमनुष्टोयताम् ।' अथ दमनकः सञ्जीवकवियुक्तं पिङ्गलकमवलोक्य तत्रान्तरे प्रणम्याऽने समुपविष्टः । पिङ्गलकोऽपि तमाह-भद्र ! किं चिरा दृष्टः ? । दमनक आह-न किञ्चिद्देवपादानामस्माभिः प्रयोजनम् . तेनाहं नाऽऽगच्छामि, तथापि राजप्रयोजनविनाशमवलोक्य संदह्यमानहृदयो व्याकुलतया स्वयमेवाभ्यागतो वक्तुम् । उक्तञ्च- प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाऽशुभम् । अपृष्टोऽपि हितं ब्रूयाद्यस्य नेच्छेत्पराभवम् ।। २६२ ।। अथ तस्य साऽभिप्रायं वचनमार्ण्य पिङ्गलक आह-'किंवक्त मना भवान् ?, तत्कथ्यतां यत्कथनीयमस्ति।' स प्राह-'देव ! सञ्जीवको युष्मत्पादानासुपरि द्रोहवुद्धि'रिति-विश्वासगतस्य मम विजन इदमाह-'भो दमनक ! दृष्टा मयाऽस्य पिङ्गलकस्य आसाद्य-प्राप्य। 'दूरतोऽपि दृष्ट्येति सम्वन्धः । स्व दुर्ग-कूपम् । तेन-गशकेन । तेन=सिंहनादेन । तं शत्रुम्-अन्त स्थितं, मत्वा जात्वा । तेन=सिहेन । तस्योपरि-स्वप्रतिविम्बस्योपरि-कूपमध्ये । प्रगस्यमानः-स्तृयमान, 'त सह वने वसति स्म ति सम्बन्ध । भवान् करटक , तयो सञ्जीवकपिझलकयो.। यथाभिप्रेतम-तयोमंत्रीभदा- दिकम् । सजीवकवियुक्त-कदाचित्-सजीवकपभरहितम् । तत्रान्तरे-नम्मिन्न- वसरे। राजप्रयोजनविनागं राजकायकार्यहानिम् । साभिप्रायगृटागयगालि । विश्वासगतस्य-विश्वासपात्रस्य। विजने-एकान्ते । माराऽमारता कोशब्लादि. , शक्ततरोऽयमिति मत्वा' पा० ।