पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

९७ तथा च-आत्मनः शक्तिमुद्वीक्ष्य मानोत्साहश्च यो व्रजेत् । वहून्हन्ति स एकोऽपि क्षत्रियान्भार्गवो यथा ।। २५९ ।। शशक आह-'अस्त्येतत् , तथापि बलवान् स मया दृष्टः, तन्न युज्यते स्वामिनस्तस्य सामर्थ्यमविदित्वैव गन्तुम् । उक्तञ्च- अविदित्वाऽऽत्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो नाशं योति वह्नौ पतङ्गवत् ।। २६० ।। यो बलात्प्रोन्नतं याति निहन्तुं सवलोऽप्यरिम् । विमदः स निवर्तेत शीर्णदन्तो गजो यथा ।। २६१ ॥ भासुरक आह-भोः ! किं तवाऽनेन व्यापारेण?' । दर्शय मे तं दुर्गस्थमपि ।' अथ शशक आह-यद्येवं तागच्छतु स्वामी ।' एवमुक्त्वाऽग्रे व्यवस्थितः । ततश्च तेनाऽऽगच्छता यः कूपो + दृष्टोऽभूत्तमेव कूपमासाद्य भासुरकमाह-स्वामिन् ! कस्ते प्रताप सोढुं समर्थः, त्वां दृष्ट्वा दूरतोऽपि चोरसिंहः प्रविष्टः स्वं दुर्ग, तदागच्छ येन दर्शयामि' इति । भासुरक आह-'दर्शय मे दुर्गम् ।' तदनु दर्शितस्तेन कूपः । तत सोऽपि मूर्खः सिंहः कूपमध्ये आत्मप्रतिबिम्ब जलमध्यगतं दृष्ट्वा सिंहनादं मुमोच। ततः प्रतिशब्देन कूपमध्याद्विगुणतरो मनोत्साहम् अभिमानं युद्धोत्साहञ्च । व्रजेत्= आश्रयेत् । स =उत्साह वलोर्जित । भार्गव -परशुराम ॥ २५९ ।। स-चौरसिह । आत्मन परस्य च शक्तिमविदित्वा-समुत्सुक-युद्धोत्सुक , अभिमुख-शत्रुसंमुख, गच्छन् -वही पतङ्ग इव-नाश प्रयाति ॥ २६० ॥ य -वलात् प्रोन्नतं प्रकृष्टवलशालिनम् , अरि-शत्रु, निहन्तु प्रयाति स सवलोऽपि विमद =पराजित सन्-(शीर्णादन्त =भन्न दन्त , गज इव-) निवर्तते। अतो वलवदभियानं नोचितमित्याशय ॥ २६१ ॥ व्यवस्थित.-प्रचलित । अनेन-उपदेशादिना, किन किमपि प्रयोजनमित्यर्थ । तेन शशकेन । ' 'शत्रूनेकोऽपि हन्यात्स क्षत्रियान्' पा० । २ 'गच्छन्नभिमुखो वह्नौ नाश याति पतगवत्' । ३. 'योऽवल: प्रोन्नत याति निहन्तु सबलं रिपु'मिति पाठान्तरम् । ४ 'येन त्वा दूरतोऽपि दृष्ट्वा चौरोऽय तदुर्गं प्रविष्ट.।