पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

तथा च-रोहिणीशकटमर्कनन्दश्चेद्भिनत्ति रुधिरोऽथवा शशी। कि वदामि तदनिष्टसागरे सर्वलोकमुपयाति संक्षयम्॥२३५।। रोहिणीशकटमध्यसंस्थिते चन्द्रमस्यशरणीकृता जनाः । कापि यान्ति शिशुपाचिताशनाः सूर्यतप्तभिदुराऽम्बुपायिन' ॥२३६।। तदेतत्सरः स्वल्पतोयं वर्तते-शीघ्र शोषं यास्यति। अस्मि- शुष्क यैः सहाऽयं वृद्धिं गतः, सदैव क्रीडितश्च, ते सर्वे तोया- ऽभावान्नाशं यास्यन्ति, तत्तेषां वियोगं द्रष्टुमहमसमर्थः, तेनैतः . प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्पजलाशयानां जलचरा गुरुजलाशयेषु स्वस्वजनैर्नीयन्ते । केचिच्च मकर-शिशुमार-जलहस्तिप्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः तेनाऽह विशेषाद्रोदिमि-यद्वीजशेषमात्रमप्यत्र- सन्ति, अर्कनन्दन =शनि । रुधिर -भौम । शशी-चन्द्र । तदा-तस्मिन् काले अनिष्टरूपे सागरे-सर्वलोक -संक्षयं-नाशम् , उपयाति गच्छति-इति किं वदामि-शोकाद्वक्तुमसमर्थोऽस्मीत्यर्थ ॥ २३५ ॥ रोहिणीशकटमध्यसंस्थिते शशिनि भिन्नरोहिणीमण्डलमभ्यगते सति । अगरणीकृता =गरणरहिता, जना =लोका , शिशुभि =स्वापत्य विक्रीतैर्मारितैर्वा- पाचित=निष्पादितम्-अशन यैस्ते-शिशुपाचिताऽगना , = स्वापत्यविक्रयादिना सम्पादितभोजना । सूर्यतप्तभिदुराम्बुपायिन =सूर्यकिरणसन्तप्तकटुकजलपायिन सन्त, क्वापि कान्दिशीका , यान्ति-स्वस्वदेश विहाय पलायन्ते। 'भिदुर कुशिलेऽपि स्यात्तर्यपि भिटेलिमें' इति केशव ॥२३६ ॥ ते मत्स्या । तोयाभावात् जलाभावात् । तेपा-भवता मत्स्याना, प्रायोपवेशन-भोजनादित्याग । साम्प्रतम् इदानीम् । जलचरा-मत्स्यादय । गुरुजलागयेषु-महत्सु जलाशयेषु सरोवरह्रदादिषु । स्वस्वजनै.-तत्तदात्मीयवगैायन्ते प्राप्यन्ते । केचित्-मकरा- दयो जलचरा । जलहस्तीति । (मकर=मगर। शिशुमार ='सुइस', जलहस्ती 'दर्याई घोडा' या वडी मछली')। निश्चिन्ता. निरुद्यमा । वीजशेपमात्रमपि