पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- . नोद्धरिप्यति। ततः स तदाकान्येषामपि जलचराणां तत्तस्य वचनं निवेदयामास । अथ ते सर्वे भयत्रस्तमनसो मत्स्यकच्छपप्रभृतयस्तमभ्यु. पेत्य पप्रच्छु:-'माम ! अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति । बक आह-'अस्त्यस्य जलाशयस्य नाऽतिदूरे प्रभूतजल- सनाथं सरः पद्मिनीषण्डमण्डितं, यच्चतुर्विशत्यापि वर्षाणामना- वृष्टया न शोषमेष्यति । तद्यदि मम पृष्ठं कश्चिदारोहति तदहं तं तत्र नयामि। अथ ते तत्र विश्वासमापन्नाः-तात ! मातुल ! भ्रातः ! इति ब्रुवाणाः-'अहं पूर्वमहं पूर्वम्' इति समन्तात्परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान्पृष्ठे आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्यामाक्षिप्य स्वेच्छया भक्षयित्वा भूयोपि जलाशयं समासाद्य जलचराणां मिथ्यावासिन्देशकै- मनांसि रञ्जयन्नित्यमेवाऽऽहारवृत्तिसकरोत् । अन्यस्मिन्दिने च कुलीरकेणोक्तः-'माम ! मया सह ते प्रथमः स्नेहसंभापः सञ्जातः, ततिकमां परित्यज्याऽन्यानयसि। तस्मादद्य मे प्राणनाणं कुरु।' तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान्-निर्विण्णोऽहं मत्स्यमांसादनेन, तदद्यैनं कुलीरकं व्यञ्जनस्थाने करोमि ।' नाममात्रावशिष्टोऽपि कश्चित् । नोद्धरिष्यति-न स्थास्यति । सर्वेऽपि विलयं यास्यन्तीत्यर्थः । स. कर्कट. । आकर्ण्य श्रुत्वा। तस्य-वकस्य । प्रभूतजलसनाथ विपुल- तोयराशिविराजितम् । पद्मिनीषण्डमण्डितं पद्मिनीलताकदम्बराजितम्। अनावृष्टया =अवर्पणेन । विश्वासमापन्ना. जातविश्वासा. । इति इत्येवं वदन्त । समन्तात: वकस्योपरि सर्वतः। परितस्थु =आरुरुहु. । मिथ्या मुधव । वार्तासन्देशकै = -कुशलवृत्तान्तादिभिः । आहारवृत्ति भोजनोपायं, भोजनं वा। प्रथम =आदावैव । नेहसंभाष-प्रेमालाप.। निर्विष्ण =व्याकुलः । व्यञ्जनस्थाने-व्यञ्जनस्थानीयं । ('चटपटी' 'निमकीन')। ।