पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६

  • पञ्चतन्त्रम्.*

[१ मित्र- स आह-वत्स! सत्यमुपलक्षितं भवता, मया हि मत्स्या- दनं प्रति परमवैराग्यतया सांप्रतं प्रायोपवेशनं कृतम् , तेनाहं समीपगतानपि मत्स्यान भक्षयामि ।' कुलीरकस्तच्छ्रुत्वा प्राह- 'माम ! किं तद्वैराग्यकारणम् ?'। स प्राह-'वत्स ! अहमस्मि- न्सरसि जातो वृद्धि गतश्च, तन्मयैतच्छुतं यद् द्वादशवार्षिक्य- नावृष्टिः संपद्यते लग्ना।' कुलीरक आह-कस्मात्तच्छ्रुतम् ? । बक आह-दैवज्ञमुखात्' । एष शनैश्चरो हि रोहिणीशकटं भित्त्वा भौमं शुक्रं च प्रयस्याति । उक्तञ्च वराहमिहिरेण- यदि भिन्ते सूर्यसुतो रोहिण्याः शकटमिह लोके । द्वादश वर्षाणि तदा न हि वर्पति वासवो भूमौ ।।२३३॥ तथा च-प्राजापत्ये शकटे भिन्ने कृत्वेव पातकं वसुधा । भस्माऽस्थिशकलकीर्णा कापालिकमिव व्रतं धत्ते ।।२३४|| सत्य- कुलीरक = कर्कटक , (केकड़ा)। माम ! मातुल ! (मामाजी)। आहार- वृत्तिः भोजनोपार्जनव्यापार । सनि श्वासेन-दीर्घमुछ्वास मुञ्चमानेन । तथ्यम् । उपलक्षितं तर्कितं । प्रायोपवेशनं मरणार्थ भोजनत्यागपूर्वकमवस्थान । समीपगतान् निकटतरमागतान् । वैराग्यकारणं विरक्तिकारणम् । द्वादशवार्पिकी द्वादशवर्षपर्यन्तभाविनी । अनावृष्टि . ('अकाल' 'सूखा)। सम्पद्यते लग्ना=निकट- मागता वर्तते । दैवज्ञमुखात्-मौहूतिकमुखात् । (ज्यौतिषी से)। श्रुत'मितिशेप । एप -गगने दृश्यमानः, रोहिणीशकट-रोहिणीतारकचतुष्टयरूपंगकटं। शक- टाकारं रोहिणीतारकमण्डलम् । भित्वा खण्डयित्वा । प्रतियास्यति-भौमशुक्राभ्या सहैकराशि यास्यति । सूर्यसुतः शनि । भिन्ते भेदयति । शकटमिव-शकटं, शकटाकारं रोहिणीमण्डलं । वासवः इन्द्रः ॥ २३३ ॥ प्राजापत्ये शकटे-प्रजापतिदैवत्ये रोहिणीशकटे। भिन्ने-शनैश्चरेण, भौमेन, चन्द्रेण वा विदारिते सति । वसुधा-पृथ्वी। पात-पापं कृत्वेव, पापिनी स्व- पापोपशान्तये इव-भस्मास्थिशकलै =भस्मास्थिखण्डै, कीर्णा=व्याता सती, कापालिकवतं-योगित्रतं, धत्ते इव-सेवते इव । अन्योऽपि कृतपापो तत्पापा- पनुत्तये चान्द्रायणादिव्रतमाचरति । भूमिरपि कृतजनक्षयपापा-जनहीनाऽस्थि- खण्डमण्डिता कापालिकव्रतमिवाचरतीति-भाविजनसंहार सूचितः ॥ २३४ ॥