पृष्ठम्:न्यायलीलावती.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
न्यायलीलावती


नाद्यः । प्रतियोगिनोऽनवभासे सादृश्यबुद्धेरभावात् । अस्त्येव च बुद्धिर्न व्यपदेशभागिनीति चेन्न, ब्राह्मणत्वा [१]देरपि निर्वि-


न्यायलीलावतीकण्ठाभरणम्

साहश्याश्रयो गवयादिः प्रतियोगी सादृश्यनिरूपको गवादिः । प्रतियोगिन इति । सादृश्यस्यान्वयव्यतिरेकाभ्यां प्रतियोगिनिरूपणाधीननिरूपणत्वसिद्धेरित्यर्थः । अस्त्येवेति । प्रतियोगिग्रहणमन्तरेणापि सादृश्यं ज्ञायते न तु व्यवहियत इत्यर्थः । एवं सति ब्राह्मणत्वजातेरपि विशुद्धमातापितृजयोनित्वव्यङ्गत्वात् सविकल्पकमात्रवेद्यत्वं सिद्धान्तो-

न्यायलीलावतीप्रकाशः

झवहारे तु तत् हेतुरित्याह--अस्त्येवेति । इदमनेन सदृशमिति सादृश्यानुभवात्प्रतियोगिज्ञानं विना तदज्ञानात् तस्य तद्धी हेतुत्वान्ननिष्प्रतियोगिकसामान्यं सादृश्यम्, अन्यथा ब्राह्मण्यं [२] विशुद्धयोनिजत्वव्यङ्ग्यमतस्तज्ज्ञानं विना निर्विकल्पके तन्न भासते तज्ज्ञाने च सविकल्पकसामग्येवेत्यपि सिद्धान्तो व्याहन्येत । विशुद्धयोनिजत्वज्ञानस्य ब्राह्मण्यव्यवहारमात्रहेतुतया तज्ज्ञानाहेतुत्वे निर्व्विवकल्पकेऽपि तद्भासत इत्यस्यापि वक्तुं शक्यत्वादित्याह – ब्राह्मण्यादेरिति ।

न्यायलीलावती प्रकाशविवृतिः

ङ्गतिरत आह - व्यक्तिरिति । अन्यथा ब्राह्मण्यमिति । अत्र जातिर्व्यञ्जकवित्तिवेद्या न तु तद्धीजन्यवित्तिवेद्या, युगपदेव शिरःपुरुषत्वयोर्ग्रहादितिमते तज्ञानं विनेत्यस्य तद्विषयतां विनेत्यर्थः । तज्ञज्ञाने चेत्यस्य तद्विषयत्व इत्यर्थः । सविकल्पकसामग्न्येवेत्यत्र पूर्वमिति शेषः । तथा च विशुद्ध मातापितृजन्यत्वस्य ब्राह्मण्यधीविषयत्वे शुद्धनिर्विकल्पके ब्राह्मण्यं न भासत इति सिद्धान्तः स चैवं भज्येतेति प्रकरणार्थ: । यदि च तद्ब्रहसामग्रीत्वेन त्वया कारणत्वं वाव्यमिति लाघवेन तद्ब्रहस्यैव कारणत्वं प्रत्यक्षविशेष विशेषदर्शनस्येवेति मतम्, तदा यथाश्रुत एच ग्रन्थः । शिरःपुरुषत्वप्रतीतियैगपद्यघीस्तु भ्रम इति.


  1. ब्राह्मएयादेरिति प्रकाशसम्मतः पाठः ।
  2. अविदितचरे पुंसि प्रहरावधि निरीक्ष्यमाणेऽपि ब्राह्मण्या दिसन्देहात्, अन्वयन्यतिरेकाभ्यां विशुद्धमातापितृजत्वज्ञानं हेतु । न चैवं ब्राह्मण्यादिविशिष्टज्ञानार्थं तन्निविकल्पकमावश्यकमिति वाच्यम्, व्यक्तिसविल्पकस्यैव तदंशे निर्विकल्पकरूपत्वात्, तावतापि सविकल्पकमात्रवेद्यत्वाक्षतेः । इति दीधिति ।