पृष्ठम्:न्यायलीलावती.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


इहायमितिप्रतीतिर्वैचित्र्यात् । शब्दमात्रत्वे तु सम्बन्धापलापप्रसङ्गात् ।

 सादृश्यं च [१] गुणवृत्तित्वान्न द्रव्यगुणकर्मात्मकम् । नापि सामान्यम् । तद्धि व्यक्तिदर्शनमात्रवेद्यं वा प्रतियोगिग्रहणवेद्यं वा ।

न्यायलीलावतीकण्ठाभरणम्

सैव वः प्रतीतिः कथं स्याद् य द्याधाराधेयभावो न भवेदित्यर्थः ।उच्चारणमपि नार्थप्रतीत्यधीनं न वा उच्चारणात् प्रतिपाद्यस्य काचिदभिमतार्थप्रतीतिरिति यदि तदेह तन्तुषु पट इत्याद्यपिप्रतीतिबलात् त्वदुपगतोऽपि सम्बन्धो न सिद्ध्यदित्याह – शब्दमात्रत्व इति । सादृश्यं च पदार्थान्तरं न विभक्तमिति पुनर्विभागव्याघातमाह--सादृश्यं चेति । सादृश्यस्य पदार्थान्तरवैधर्म्यमाह -- गुणवृत्तित्वादिति । भवति हि यथा शङ्खस्य रूपं तथा पटस्येतिप्रतीतिबलाद्गुणवृत्तित्वमस्येत्यर्थः । ननु सामान्यमेव सादृश्यमित्यत आह -नापीति | व्यक्तिः

न्यायलीलावतीप्रकाशः

ब्दाननुसन्धानेऽपि तत्प्रतीतेर्न सा शब्देनोपपाद्यते तर्ह्याधारत्वादावपि तथेत्याह -- इहायमिति । प्रतीतिवैचित्र्येऽपि यदि विषयशून्यशब्दमात्रस्वीकारस्तदा गोत्वसमवेतमित्यादिप्रयोगोऽप्येवं समर्थयितुं शक्यत इति समवायादिरपि न सिद्ध्येदित्याह - - शब्दमात्रत्वे त्विति ।

 अस्ति तावदबाधितसदृशबुद्धेः सादृश्यं तन्न द्रव्यादित्रयात्मकं [२] गुणसमवेतत्वादित्याह - सादृश्यमिति । अतएव न विशेषसमवायात्मकमित्यपि द्रष्टव्यम् । व्यक्तिः सादृश्याश्रयः प्रतियोगिन इति प्रतियोगिनस्य सादृश्यधीहेतुत्वादित्यर्थः । न सादृश्यज्ञाने प्रतियोगिज्ञानं हेतु: सामान्यरूपतया तस्य निष्प्रतियोगिकत्वात् शब्दप्रयोगात्मकत-

न्यायलीलावतीप्रकाशविवृतिः

देरपि गुणवृत्तित्वाद्यभिचार इत्यत आह - गुणसमवेतत्वादिति । अत एवेत्यनेनापि गुणसमवेतत्वमेवानुकर्षणीयम् । यथाश्रुतमौलहेतुपरामशें समवायेन व्यभिचारात् । प्रतियोगिनोऽपि व्यक्तित्वेन विकल्पास-


  1. 'वयं तु गु' ।
  2. विषयित्वादिना द्रव्यादेरपि गुणावृत्तित्वादाह-गुणसमवेतत्वादिति । इति दीधितिः ।