पृष्ठम्:न्यायलीलावती.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


कल्पकबुद्धिवेद्यत्वापत्तेः । नान्त्यः । अवयवसामान्यानां प्रागेव ज्ञानात्सामान्यस्य च सामान्यान्तरेऽभावात् । सादृश्यव्यवहाराभावापत्तौ मेयान्तरत्वादिति । मैवम् ।

भावत्वाधिष्ठिताः सर्वाः प्रत्येक व्यक्तयो मताः ।


न्यायलीलावतीकण्ठाभरणम्

ऽपि भज्येत तद्व्यवहारमात्रे तदपेक्षेत्यपि वक्तुं सुकरत्वादित्यर्थः। अक्यवेति। सामान्यान्थेव भूयांसि गुणावयवकर्म्मणाम् । भिन्नप्रधानसामान्यव्यक्तं सादृश्यमित्यभ्युपगमात् साहयं सामान्यं भवदवयवगतमेव भविध्यति । तद्ग्रहे च न प्रतियोगिग्रहापेक्षा व्यक्तिग्रहमात्रव्यङ्ग्यत्वात्तस्येत्यर्थः। सादृश्यस्य सामान्यत्वे बाधकान्तरमाह- सामान्यस्येति । यथा गोत्वं नित्यं तथाऽश्वत्वमपीतिप्रतीतः सामान्येऽपि सादृश्याभ्युपगमात् । न च सामान्यं सामान्यवृत्तीति पदार्थान्तरमेव सादृश्यमित्यर्थः । भावत्वेति ।

न्यायलीलावतीप्रकाशः

व्यवहर्त्तव्यज्ञाने व्यवजिहीषार्थी च सत्यां व्यवहारेऽम्यापेक्षा न दृष्टचरी, न च द्रव्यग्रहणसमकालं तत्परिमाणग्रहेऽपि तत्र दीर्घत्वहस्वत्वव्यवहारे तथा दृष्टं तयोः परिमाणान्तरतया प्रतियोगिज्ञानव्यङ्गयत्वात् तत्काले तदग्रहादिति भावः । अवयवेति । प्रागेव प्रतियोगिज्ञानादितिशेषः । अवयवेत्युपलक्षणं गुणकर्मसामान्यानामपि प्रतियोगिज्ञानारत्प्रागेव ज्ञानात् न तदात्मकमित्यपि द्रष्टव्यम् । ननु सादृश्यरूपतया तस्य ज्ञाने प्रतियोगिज्ञानं हेतुः स्यादित्यत आह -- सामान्यस्येति । यथा गोत्वं नित्यं तथाऽश्वत्वमिति जातावपि सादृश्यानुभवान्न जात्यात्मकं सादृश्यमिति भावः । भावत्वेति । अनेन भावमात्रस्यायं विभक्तविभागो न

न्यायलीलावतीप्रकाशविकृतिः

भावः । निर्युक्तिकसिद्धान्तव्याकोपमात्रं न दूषणमत आह-व्यवतव्येति । तयोः परिमाणान्तरतयेति। जातिविशेषविशिष्टपरिमाणात्मकतयेत्यर्थः । तथा च व्यवहर्त्तव्यतावच्छेद (क) विशिष्टे व्यवहर्त्तव्यज्ञानस्य व्यवहारकारणतथा व्यवहर्त्तव्यज्ञान एव तदपेक्षणमिति भावः । केचित्तु अणुमहदादिभावेन परिमाणस्य चतुर्विधतया यथाश्रुत एव ग्रन्थार्थ इत्याहुः । तारत्वादेरुत्कर्षरूपतया जातित्वेन व्यक्तिग्रहणकाले ग्रहणेऽपि तारश-