सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६३
न्यायललावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


 मैवम् । अबाधितप्रत्यभिज्ञानसिद्धत्वात्, नाशस्य चोभयहेतुकत्वात् आश्रयविरोधिनाशोत्पाद हेतु कगुणनाशवत् । न च कर्मणि तथास्वम् दूरादूरघनाघनोत्तर संयोगमात्रेण कर्मणो नाशदर्शनात् । न च वेगस्यैकत्वे कर्मसन्तत्यनुपरमः, वेगसन्तानो-


न्यायलीलावतीकण्ठाभरणम्

 अबाधितेति । + वेगस्तावत् शरे +प्रथममुत्पन्नस्तेनैव गच्छति शर इत्यबाधित प्रत्यभिज्ञानबलादेक एव तत्र वेगश्च, किञ्च भावनात्यसंस्कारत्वेन स्थिरत्वानुमानं मन्दतरत मादिव्यवहारस्तु वेगजनककर्म्मजननीनबन्धनः । उभयहेतुकत्वादिति । ( स्वस्तिक) घनसंयोगदूरसंयोगहेतुकत्वमित्यर्थः । ननु तथाप्यनियतहेतुकत्वं न समाहितमतो दृष्टान्तमाह आश्रयेति । यथा (१) नोत्पाद: गुणनाशकोऽनुगत एव तथा प्रकृतेऽपीत्यर्थः । ननु कर्मापि स्थिरमस्तु क्वचिद्धनसंयोगः क्वचिञ्च दूरसंयोगोऽनुगत एव तन्नाशकः कल्प्यतामित्यत आह नचेति । कर्म्मण + उत्तरसंभोगमानाश्यत्वा+न्नैवं एव कल्पनेत्यर्थः । ननु बदि यावदिषुपतनमेक एव वेगोऽभ्युपेयस्तदा पातो न स्यादेव वेगेनोत्तरोत्तरकर्मसन्तानजनन सम्भवादित्यत आह नचेति ।

न्यायलीलावतिप्रकाशः

अबाधितेति । कार्यसन्तानस्यैकेनैव वेगेनोपपत्तेरने कत्वेभानाभावाद्वेगत्वव्याप्य [१] जातित्वेन स्थिरवृत्तित्वानुमाना च्चेत्यपि द्रष्टव्यम् । न च प्रत्यभिज्ञानवलात्कर्मणोप्यैक्यं सिद्धयेदिति वाच्यम् । कर्मण एकत्वेन विभागजननेऽनपेक्षतया स्वोत्पश्यनन्तरमेव यावदुत्तरदेशविभागोत्पत्त्यापत्तेः । उभयेति । दूरसंयोगो घनसंयोगक्ष्चेत्युभयम् । वेगसन्तानेति । ननु कर्मैव कर्म जनयतु किं वेगेन, नच कर्मसन्तानानुपरमः यथा कश्चिदेव वेगः कर्मजनको न चरमस्तथा कर्मापि किञ्चिदेव कर्मजनकं नान्त्यमित्युपगमात् । अत्राहुः । उत्तर-

न्यायलीलावतीप्रकाशविवृतिः

त्वामेति भाषः ॥

 संस्कारस्वव्याप्येति । विनश्यदवस्थद्रव्योत्पन्नवेगत्वे व्यभिचार इति जातिपदम् । कर्मण एकत्वेनेति । इदमापाततो, वस्तुतो वेगस्य उत्तरसंयोगमात्रनाश्यत्वे उत्तरकमोत्पत्तिर्न स्यादसमवायिकारणस्य कार्यसमानकालतानियमादिति द्रष्टव्यम् । यथा कश्चिदेव वेग


  1. ↑ संस्कारव्याप्येति विवृतिकूदभिमतः पाठः