सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
न्यायलीलावती


परमवदुपपत्तेः ॥ इति संस्कारः ॥

इति श्रीमदाचार्यबल्लभकृता न्यायलीलावती समाप्ता ॥


न्यायलीलावती कण्ठाभरणम्

+यथा भवन्मते वेगसन्तानोपरम+स्तथास्मन्मते कर्म्मसन्तानोपरमसम्भवात् वेगप्रत्यभिज्ञा त्वस्मन्मतेऽधिकेति भावः ।

इदमिह लीलावत्यामत्यासङ्गेन विदितभावायाम् । श्रीशङ्करेण रचितं क+ण्ठाभरणं विराजतां लोके+ ॥ (?)

स्वभ्रातुर्जीवनाथस्य व्याख्यामाख्यातवान् यतः ।
मत्पिता भवनाथो यान्तामिहालिखमुत्तमाम् ।
पित्रा यद् भवनाथेन ब्याख्यातं तदिहालिखम् ॥

व्याख्यानगुणदे (?)

इतिमहामहोपाध्यायश्रीभवनाथात्मजमहामहोपाध्यायश्रीशङ्कररचितं लीलावतीकण्ठाभरणं समाप्तम् ॥

न्यायलीलावतीप्रकाशविवृतिः

कर्म न कर्मजन्यं कर्मत्वात् आद्यकर्मवत् । नचैवमुत्तरकर्म न वेगजन्यं कर्मत्वात् आद्यकर्मवदित्यपि स्यात्, वेगग्राहकमानबाधितत्वात्, सोपपत्तिकस्य वेगेन गच्छतीतिप्रत्यक्क्षस्यानुपपत्तेः प्रतिकूलतर्कपराहतत्वाच्चेति ॥

यस्तर्कतन्त्रशतपत्र सहकार श्मिर्गङ्गेश्वरः सुकविकैरवकाननेन्दुः ॥ तस्यात्मजोऽतिगहनं कणभक्षशास्त्रं प्राकाशयस्कृतिमुदे बुधवर्धमानः

इति श्रीमहामहोपाध्यायगङ्गेश्वरसुतश्रीमन्महामहोपाध्यायश्रीवर्द्धमानकृतलीलावतीप्रकाशः समाप्तिमगात् ॥

न्यायलीलावतप्रिकाशविवृतिः

इति । इदं च वेगनानात्वाभ्युपगमेन । उत्तरकर्मेति । यद्यपीदमप्रयोजकं, तथापि नानापुरुषसाधारणैकवृत्तिसजातीय धर्ममात्रस्य प्रतिबन्धकत्वकल्पनात् कर्मणोऽपि कर्मप्रतिबन्धकतया तदसमवायिकारणत्वमिति भावः । वेगेति । कर्मजनकत्वेनैव ततसिद्धेरिति भावः । सोपपत्तिकस्येति । वेगेन गच्छतीति प्रत्यक्षेण वेगैक्यसिद्धेः, कर्मणश्चानेकत्वेन तस्यासमवायिकारणत्वे गौरवपराघाताश्चेति भावः ॥

इति महामहोपाध्यायशङ्करभगीरथविरचिता लीलावतीप्रकाशिका समाप्ता ॥