ऽवभासानुपपत्तेः । तदनपेक्षत्वे त्वनवस्थेति चेत् । न, अनुव्यवसायप्रतीतिसामग्रीप्रतिबन्धक सुखादिविरहविशिष्टस्यैव ज्ञानमनः-
संनिकर्षस्य प्रतीतिहेतुत्वात् ॥ इति बुद्धिः ॥
संस्कारक्ष्च वेगात्मा आपतनादेको न भवति, उत्तर संयोगविरोधित्वात् कर्मवत् । न चैतदसिद्धम्, अन्यथाऽनाशप्रसङ्गात् । दूरसंयोगस्तद्धेतुरिति चेन्न । अन्तिकेऽपि घनसंयोगेन नाशात् । सोऽपीति चेन्न । अनियतहेतुकतापत्तेः । संयोगभेद इति चेत् | न, संयोगिजातिवैचित्र्ययारेनुपपत्तेः ।
न्यायललिावतकिण्ठाभरणम्
मानोल्लेखानुपपत्तेरिति शङ्कते जिज्ञासेति । अनुव्यवसायप्रतीतिरित्यत्र षष्ठीसमासेन कर्म्मधारयेण वा [१]। सुखादिविरति । तीव्रलंवेगिसुखदुःखाद्यभावविशिष्टस्तत्सामग्य भावविशिष्टो वा मनःसन्नि+कर्षो वा हेतुरित्यर्थः । इष्वादिक+र्मणा जनितो वेगः पतनपर्थ्यन्तमेक एवानुगत इति मतमास्कन्दति संस्कार इति । न चैतदिति । उत्तरसंयोगनाइयत्व मित्यर्थः । सोऽपीति । बन्दिरेव घनसंयोगो दूरसंयोगो (१) नुगम: स्यादित्यर्थः । संयोगभेदकृतः संयोगद्वाराजातिभेद्कृतो वा न संयोगभेदोऽस्ति संस्कारनाशकोऽनुगत इत्याह संयोगीति ।
न्यायलीलावतीप्रकाशः
ज्ञानस्य म स्यादित्याह जिज्ञासेति । वस्तुतो ज्ञानस्य जिज्ञासापेक्षायामप्यनवस्थैव, जिलासा हि धर्मिज्ञानपूर्विका तज्ज्ञानमपि जिज्ञासाजन्य सापि ज्ञानजन्यैव । अनुव्यवसायेति । तीव्रसंवेगिमनोग्राह्यगुणान्तराभावो ज्ञानग्रहणकारणमित्यर्थः ।
इष्वादावुत्तर संयोगेनाद्य कर्मनाशे तज्जनितो वेग आपतनमेक एवोत्तरोत्तरकर्मजनक इति मतमाक्षिपति संस्कारश्चेति । अन्यथेति । यघन्तरसंयोगनाश्यो न वेगः स्यात् तदा तन्नाशकान्तराभावात् तेन कर्मपरम्परा जन्येतेत्यर्थः । संयोगीति । संयोगविशेषो न संयोगिकृतो न वा जातिकृत इत्यर्थः ।
न्यायलीलावतीप्रकाशविवृतिः
तीब्रसंवेगीति । फलबलेन सुखादिग्रहसामग्रथा ज्ञानप्रहप्रतिबन्धक-
- ↑ भाव्यमिति शेषः ।