भावादिति चेन्न । तस्यापि नियमानुपपत्तेः । स्वभावादिति चेत्, तुल्यम् । घटो ज्ञात इति चाक्षुषी प्रतीतिरनुपपन्नेति चेन्न । अयं रुष्टस्तुष्टो दुःखितो हृष्ट इतिवदुपपत्तेः । फलानाधारत्वे घटं जानामीति कर्मत्वानुपपत्तिरिति चेन्न । हानादिव्यवहारजननादेवोपपत्तेः । तस्यैव कथं तदाधारत्वमिति चेन्न । अभावादेवोपपत्तेः । ज्ञायते च मानसप्रत्यक्षात् । जिज्ञासापेक्ष मनोजन्यत्वे वर्तमाना-
न्यायलीलावतीकण्ठाभरणम्
स्यापीत्याह + तुल्यमिति । ज्ञाते घटे + ज्ञातताद्युपनीतभानमिति दृष्टान्तेन दर्शयति अयमिति । परसमवेतक्रियाफलशालित्वं कर्मत्वं करणव्यापारविषयत्वं वा कर्मत्वं ज्ञानफलज्ञातताभावे + कथं स्यादित्याहू + फलेति । हानोपादानादिकमेव फलमुच्यते तदधीनैव कर्म्मतेत्याह हानादीति । उपेक्षणीयेऽपि परम्परासम्बन्धः संस्कार एव फलं तञ्च तत्र नानुपपन्नमतीतादौ (?) येति भावः । ननु लिङ्गाभावे कथं ज्ञायेतेत्याह ज्ञायते चेति । ननु संयुक्तसमवायेन मनला ज्ञानग्रहे ज्ञानधाराऽनिवृत्तिः, जिज्ञासापेक्षया च उभयाग्राह्यस्य नाशे जानामीति वर्त्त-
न्यायलीलावतीप्रकाशः
ति । उपकारस्यापि नियतविषयोत्पादो ज्ञानस्वभावादेवेति यदि तदा तत एव विषयतानियमोऽपीति शङ्कोत्तराभ्यामाह स्वभावादितीति । एतच्चावश्यं वाच्यम्, अन्यथाऽतीतादिविषयत्वानुपपत्तेस्तत्रोपकारा धानस्याशक्यत्वात् । न च तत्रापि तद्धर्मसामान्याधारं किञ्चित्कर्त्तव्यम् तेन तस्यैव विषयत्वप्राप्तेः । ननु ज्ञातो घट इत्यनुभवात् प्रत्यक्षमेव तत्र मानमित्याह घटो ज्ञात इति । ज्ञानविशिष्टताप्रत्यय एवायं नतु तदतिरिक्तविषयः, अन्यथातिप्रसङ्ग इत्याह अयमिति । ननु ज्ञा- नादिक्रिया स्वकर्मणि फलजनिका क्रियात्वात् गमनवत्, अन्यथा घटादेः कर्मत्वं न स्थात् परसमवेतक्रियाफलशालिनः कर्मत्वादित्याह फलेति । व्यवहारोत्पतेः पूर्वं तस्यापि न नियामकत्वमित्याह तस्यैवेति । हानादिव्यवहारस्यैवेत्यर्थः । नाप्यतीन्द्रियं ज्ञानं येन तद्यवहारानुपपत्त्या तत्कल्पनमित्याह ज्ञायते चेति । ननु यदि योग्यज्ञानं तदा संयुक्तसमवायेन मनःप्रस्यासत्या ज्ञानपरम्परैव ज्ञेया न तु विषयान्तरग्रहः स्यात्, ततो योग्यमपि जिनालया ज्ञायत इति मन्तव्यं, तथा च जिज्ञासाकाले ज्ञानस्यातीतत्वात् वर्त्तमानाभासता