, न्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ८६९ भावादिति चेन्न । तस्यापि नियमानुपपत्तेः । स्वभावादिति चेत्, तुल्यम् । घटो ज्ञात इति चाक्षुषी प्रतीतिरनुपपन्नेति चेन्न । अयं रुष्ट- स्तुष्टो दुःखितो हृष्ट इतिबदुपपत्तेः। फलानाधारस्खे घटं जानामी- ति कर्मत्वानुपपत्तिरिति चेन्न । हानादिव्यवहारजननादेवोप- पत्तेः । तस्यैव कथं तदाधारत्वमिति चेन्न | अभाव देवोपपत्तेः । ज्ञायते च मानसप्रत्यक्षात् । जिज्ञासापेक्ष मनोजन्यत्वे वर्तमाना- न्यायलीलावती कण्ठाभरणम् स्यापील्याह+तुल्यमिति । ज्ञाते घटे+ज्ञाततापनीतभानमिति दृष्टान्तेन दर्शयति अयमिति। परसमवेतक्रियाफलशालित्वं कर्म्मत्वं करणव्यापार. विषयत्वं वा कर्म्मत्वं ज्ञानफलशातताभावे + कथं स्यादित्याहू + फलेति । हानोपादानादिकमेव फलमुच्यते तदधीनैव कर्म्मतेत्याह हानादीति । उपेक्षणीयेsपि परम्परासम्बन्धः संस्कार एव फलं, तच तत्र नातु- पपन्नमतीतादौ (?) येति भावः । ननु लिङ्गाभावे कथं ज्ञायेतेत्याह ज्ञायते चेति । ननु संयुकसमवायेन मनला ज्ञानग्रहे ज्ञानघाराs निवृत्तिः, जिज्ञासापेक्षया च उभयाग्राह्यस्य नाशे जानामीति वर्त्त न्यायलीलाबतीप्रकाशः । ति । उपकारस्यापि नियतविषयोत्पादो ज्ञानस्वभावादेवेति यदि तदा तत एव विषयतानियमोऽपीति शङ्कोत्तराभ्यामाह स्वभावादितीति । एतच्चावश्यं वाच्यम्, अन्यथाऽतीतादिविषयत्वानुपपत्तेस्तत्रोपकारा धानस्याशक्यत्वात् । न च तत्रापि तद्धर्म सामान्याधारं किञ्चित्क तव्यम् तेन तस्यैव विषयत्वप्राप्तेः । ननु ज्ञातो घट इत्यनुभवात् प्रत्य क्षमेव तत्र मानमित्याह घटो ज्ञात इति । ज्ञानावीशष्टताप्रत्यय एवायं नतु तदतिरिक्तविषयः, अन्यथातिप्रसङ्ग इत्याह अयमिति । ननु ज्ञा. नादिक्रिया स्वकर्मणि फलजनिका क्रियात्वात् गमनवत्, अन्यथा घटादे: कर्मत्वं न स्थात् परसमवेतक्रियाफलशालिनः कर्मस्वादि- त्याह फलेति । व्यवहारोत्पते: पूर्व तस्यापि न नियामकत्वमित्याह तस्यैवेति | हानादिव्यवहारस्यैवेत्यर्थः । नाप्यतीन्द्रियं ज्ञानं येन तद्य वहारानुपपत्या तत्कल्पनमित्याह ज्ञायते चेति । ननु यदि योग्यज्ञानं तदा संयुक्तसमवायेन मनःप्रत्यासत्या ज्ञानपरम्परैव शेया न तु विषयान्तरग्रहः स्यात्, ततो योग्यमपि जिलासया ज्ञायत इति म न्तव्यं, तथा च जिज्ञासाकाले ज्ञानस्यातीतत्वात् वर्त्तमानाभासता
पृष्ठम्:न्यायलीलावती.djvu/९४५
दिखावट