सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५७
न्यायलीलावती


न हि तत्संयोगित्वेऽप्य संयोगित्वं युतसिद्धिः त्र्प्रपि त्वसम्वद्धयोः सत्त्वम् । न च तन्नित्यसमवायपक्षे सम्भवति । न च कर्मैवारम्भकम्, व्यधिकरणत्वात् ॥ इति विभागः ॥

 द्विपृथक्त्ववत् द्विपरत्वमपि किं न स्यादिति चेन्न । उभयवृत्तीनां गुणानां विजातीयपरस्परावधिसापेक्षव्यवहारगोचरत्व-


न्यायललिावतीकण्ठाभरणम्

द्धयोर्द्वयोरपि विद्यमानत्वं युतसिद्धिरतः सावयवावयवि (?), [१] किञ्च व्यधिकरणमङ्गुलीकर्म कथ हस्तादिविभागं जनयोदस्याह नचेति । द्वौ पराविति प्रत्ययदर्शनादाह द्विपृथकत्ववदिति । उभयवृत्तिगुणानामिति । इतरनिरू+पकानामुभयवृत्तीनां +गुणानामित्यर्थः । भवति हि घटेन संयुक्तः पटः पटेन विभक्तो घटो घटाञ्च विभक्तः पट इति परस्परावधिको व्यवहारः, द्वित्वादिकं च प्रतियोगिनिरूप्यमेव न +भवतीति भा+वः । द्विपृथक्त्वे यद्यपि पृथक्त्वावच्छेदेन न परस्पराव धिकत्वं, तथापि तद्विजातीयं यदेकपृथक्त्वं तद्घटितपरम्परावधिसापेक्षव्य-

न्यायलीलावतीप्रकाशः

गारम्भकं स्यादत आह न चेति । सामानाधिकरण्येनैव तयोः कार्यकारणभावादित्यर्थः ॥

 द्विपृथक्त्ववदिति । द्वौ पृथगिति पृथक्त्वस्य द्वित्वे नान्यूनानतिरिक्तवृतितयाऽनुभवात् यथा द्विपृथक्त्वं व्यासज्यवृत्ति गुणन्तरं तथा द्वौपरावित्यनुभवात् द्विपरत्वमङ्गीकार्यमित्यर्थः । उभयवृत्तीनामिति । उभयवृत्तीनां गुणानां स्वेतरविजातीयत्वं गुणत्वसाक्षायाव्यजात्या भवति यथा संयोगे । यद्यपि द्विपृथक्त्वेप्येक पृथक्त्वजातीयत्वमेव, तथापि तत्र परस्परापेक्षव्यवहारगोचरत्वमस्ति घटात् पट: पृथक् पटाञ्च घटः पृथगिति प्रत्ययात्; तथाच यदि द्विश्वसमानाधिकरणेन पृथक्त्वेन द्वौ पृथगिति धीः स्यात् तदा घटात् पटाच्च घटपटौ

न्यायलीलावतीप्रकाशविवृतिः

 दृष्टान्तबललभ्यां युक्तिमाह दौ पृथगिति । उभयवृत्तीनामितीति । यत्र स्वनिष्ठगुणत्वसाक्षाच्या व्यजात्या विजातीयमव्यासज्यवृत्ति गुणान्तरं तत्र व्यासज्यवृत्तर्गुणस्य स्वीकारः यथा संयोगविभागयोः,


  1. ↑ मूलादर्शपुस्तकान्तिमपृष्ठद्वय ककोणभागस्यास्यन्तं शीर्णतया (?) एतच्चिह्नस्थलेषु सर्वत्र पाठः स्वयमेव विद्वद्धियथासंगति संयोज्यः पठनीय स्थल विशेषेष्वस्माभिर्यथामति + एतच्चिह्नातियोजितस्तस्य युक्तत्वं सुधीभिर्विभावनीयम् ।