नियमात् । अत्र च तव्घावृत्तौ द्विपरत्वव्यवहारस्य द्वित्वैकार्थेसमवायनिबन्धनत्वात् । अस्तु वा तदर्षात्यलं विस्तरेण ॥ इति
परत्वापरत्वे ॥
न्यायलीलावतीकण्ठाभरणम्
वहारगोचरत्वम्, अत एव तत्र पर+त्वापरत्वव्यव+हारो नतु परापराविति । समदेशस्थयोरपि नाऽन्योन्यावधिकत्वमत एव परत्वाभ्यामेव द्वित्वस मानाधिकरणाभ्यां द्वौ पराविति व्यवहारो द्वौ रूपवन्तावितिवदिति भावः। सूत्रे द्विपरत्वं (?) द्धमिति तदभ्युपगमेऽपि न सिद्धान्तक्षतिरित्याइ अस्तुवेति ।
न्यायलीलावतीप्रकाशः
द्वौ पृथगित्यपि धीः स्यात्, अत्र त्वेकपरत्वाभ्यां द्वित्त्वसमानाधिकरणाभ्यामेत्र द्वौ पराविति प्रतीत्युपपत्तेरित्यतिरिक्तं गुणान्तरं न कल्प्यते, न हि समानदेशस्थ्योः संयुक्तसंयोगे विशेषोऽस्ति न च तव्द्यतिरेकेण भवतः, अपि च एतौ समानदेशस्थौ पराविति प्रतीत्या अतिरिक्तं द्विपरत्वं न सिद्ध्यति, तावेव हि परत्वावधित्वाश्रयौ भवतः याभ्यामन्तरावर्त्तिनि मध्यत्वं, न चात्र तथा समानदेश-
न्याथललावतप्रिकाशविवृतिः
यत्र वा सजातीयस्यैकैकवृत्ते: परस्पराश्रयावधिकव्यवहारजनकत्वं यथा द्विपृथक्त्वादेः, यत्र वा प्रतीत्यनुपपत्तिर्यथा द्वित्वादेः, प्रकृते त्वेकवृत्तिपरत्वस्यापि स्वीकारान्न प्रथमं, समानदेशस्थयोः परस्परापेक्षपरत्वादसमानदेशस्थयोश्च तथा प्रतीत्यभावान्न द्वितीयं, द्वित्वसामानाधिकरण्यमात्रेणैव प्रतीत्यनुपत्तेश्च न तृतीयस्वीकारबीजमस्तीति वस्तुगतिः । एवञ्च प्रथमस्वीकारबीजप्रतिपादनार्थमुभयवृत्तिगुणानामित्यादि, तच्चात्र नास्त्येवेति भावः । तदभावेऽपि द्विपृथक्त्वं स्वीक्रियत एवेति शङ्कां द्विपृथक्त्वेपत्यादिनोत्थाप्य द्वितीयबीजनिरासार्थे तथापीत्यादि, तृतीयबीजनिरासार्थमत्र त्वेकपरत्वाभ्यामित्यादीति । एवञ्च विजातीयपरत्वेन गुणत्वसाक्षाव्घाव्यजात्यव्यासज्यवृत्तिविजातीयत्वेन परस्परावधिसापेक्षव्यवहारगोचरत्वेन वा एकवृतितज्जातीयगुणयोरुभयवृत्तीनां नियमात् । इदमुपलक्षणं प्रतीत्यनुरोधाच्च अत्र तु तदभावादिति मूलार्थ इति सर्वतात्पर्यम् । नहि समानदेशस्थयोरिति । तथाच संयुक्तसंयोगविशेषाभावादेव नैकापेक्षयाऽपरत्वोत्पतिरिति न तथाप्रतीतिप्रसङ्गस्तत्रेति भावः । परत्वावध्याश्रयाविति । परस्वाश्रयोऽवाघत्वाश्रयश्चेति भावः । समानदेश-