तम् । यथैकदेशसंयोगविभागाभ्यां देवदत्ते संयुक्तविभक्तबुद्धिः न तथा अङ्गुली [१] कर्मणा देवदत्तचलतीति मतिरिति युक्तिसम्भवात् । रथे चलति देवदत्तचलनाप्रतीतिवत् स्यादिति चेत् । न, रथेन गत इति प्रतीतेः सम्भवातू [२] । कर्मणश्च संयोग विभागजनकत्वावधारणनियमात्, सजातीयारम्भकत्वानुपळम्भाच्च । अवयवकर्मैव सर्वत्र विभागारम्मकमस्तु, अन्यथा अवयवसंयोगेऽप्यसंयोगिता विभागेऽप्यविभागिना युतसिद्धिप्रसङ्गात् । मैवम् ।
न्यायलीलावतीकण्ठाभरणम्
त्यर्थः । अङ्गुलीत रुविभागानन्तरं हस्ततरुविभागप्रत्ययस्तावत् सर्वसिद्धः स कारणविभागमेव इवकारणमाक्षिपतीत्याह यथैकदेशेति । यथा संयोगविभागजनकत्वमुभयसिद्धं तथा कर्म्मजनकत्वं कर्मणो न कस्यचित्सिद्धमित्याह कर्म्मणश्चेति । अङ्गुलीकर्म्म शरीरपर्थ्यन्तं विभागं जनयाते विभागत्वं तस्य कुत इत्यत आह अवयवेति । असम्ब-
न्यायलीलाबतीप्रकाशः
संयोगनाशोत्पत्तेरित्यर्थः । यत्प्रमाणगस्यं यत् तदभावस्तदभावं गमयतीति स्थिते सत्याह यथैकदेशेति । चलततिप्रतीतेश्च प्रत्यक्षाया अभावे ऽपि तत्र कारणाव्यभिचारिकार्येण लिङ्गेनानुमानिकी साऽस्त्येवेत्याह कर्मणश्चति । सजातीयेति । ननु यत्र नोदनेन कर्म जन्यते तत्र कर्मारम्भकं क्रियावद्रव्य संयोगविशेषस्य नोदनत्वात् । मैवम् । तत्र कर्मणः कर्मासमवायिकारणत्वाभावात् तस्यैव चात्र निषेध्यत्वात् । युतसिद्धीति । वस्त्रोदकादौ तथा दर्शनादित्यर्थ: । नन्वङ्गुलीकर्मैब शरितरुविभा
न्यायलीलावतीप्रकाशविवृतिः ।
यत्प्रमाणगम्यमिति । यदेकप्रमाणगम्यमित्यर्थः । कारणाव्यभिचारिकार्येणेति । यद्यव्येषमङ्गुली कर्मणोऽङ्गुलिसंयोगानुमाने शरीरसंयोगानुमानं, तथापि प्रत्यक्षस्थले व्याप्तिहे अङ्गुलीसंयोगेनैव तदनुमानमिति भावः । ननु नोदनेति । विशिष्टस्य नुद्यकर्मजन कत्वे नोदनकर्मापि जनकम् कर्मबद्रव्यसंयोगरूपत्वान्नोदनस्येति भावः । नोदककर्मणोऽनुद्यकर्मनिमित्तत्वेऽपि न समवायित्वं तदेव चात्र निषेध्यमित्याह तत्र कर्मण इति ।