व्यायलीलावती मणस्तम्त्वाकाशसंयोगो न स्यादिति । अस्तु तथाप्यङ्गुल्या काश- संयोगाच्छरीर संयोगवत् तन्त्ववयवसंयोगादेव तत्त्वाकाश संयो- गोपपत्तेः । यत्पुनरुक्तमत्र कश्चित् - एककर्महेतुत्वे विभागस्य द्रव्यविरोधित्वाविशोधत्व मनुपपत्रं कारणावैचित्र्ये कार्यवैचित्र्य. स्याकस्मिकत्व प्रसङ्गादिति ( १ ) । तन्न । एकस्यैव कर्मणः संयोगवि- भागजनकत्वदर्शनात् । तथा कारणाकारणविभाग जन्यविभागः यथाङ्गुलीतरुविभागात पाणितहविभागः । नन्वत्र किं प्रमाणम् | विभक्तबुद्धिरिति चेन्न । तदसिद्धेः, अन्यथा कर्मापि किं नाजुकीकर्मजं स्यादिति भूषणः । तदसङ्ग - न्यायलीलावतीकण्ठाभरणम् सकसंयोगविरोधिविभागजनकं वंशदलकर्म्म स्यात्तदा द्रव्यारम्भक. संयोगाविरोधिधिभागजनकन स्यादि (?) उपाधिरेवेति सिद्धः कारण. द्वयविभागपूर्वक कारणाकारणविभाग इति भावः । एवं सत्येकस्य कर्म्मणो द्रव्यजनकद्रव्याजनक संयोगह्रयजन. कतापि न स्यादित्याह -- नन्वेवमिति । अभ्युपगम्याह अस्त्विति । तहि तन्त्वाकाशसंयोगो न स्यादेवेत्याह तन्त्ववयवेति । अंशुसंयो. गादेव तन्त्वाकाशसंयोगसम्भवादित्यर्थः । ननु कर्माणि वैचित्र्यमन्त. रेण किञ्चित्कर्म विरोधिनं किञ्चिच्चाविरोधिनं विभागं जनयतीति नियमो न सदित्यवश्यं वैचित्र्यमभ्युपेयमित्याह - एककम्मे॑ति । यथा वैचित्र्यमन्तरेणैव संयोगविभागलक्षणविरुद्ध कार्यकारित्वं तथा प्र. कृतेऽपि स्यादित्याह एकस्यैवेति । कारणद्वयविभागजं कारणाकारण. विभागं प्रसाध्याभ्युपगमेन संयोगप्रतिबन्दि निराकृत्य संप्रति कार णाकारणविभाग पूर्वकं कार्य्याकार्थ्यविभाग साधयति तथेति । तदसिद्धेरिति । अङ्गुलितरुविभागादयं हस्ततरुविभाग इति प्रत्य यासिद्धेरित्यर्थः । कर्म्मापीति । अङ्गुलीकर्म्मणा हस्तकमैत्यपि स्यादि न्यायलीलावतीप्रकाश: अन्यथेति । यदि विभक्तबुद्धि विनापि विभागस्तदाऽङ्गुलिकर्मणा शरीरकर्मैव जन्यत इति कि न कल्प्यते तज्जनित विभागाच्छरितरु ( १ ) कत्वापत्तेरिति मिश्रसंमतः पाठोइत्र द्रष्टव्यः ।
पृष्ठम्:न्यायलीलावती.djvu/९४०
दिखावट