सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५५
ब्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशो द्धासिता


 नन्बेवं यदजनक संयोगजनकं न तज्जनकसंयोगजनकम्, यथाङ्गुल्या काशसंयोगजनकं कर्म, एवञ्च तन्तुद्वय संयोगजनकात्क-


न्यायलीलावतीकण्ठाभरणम्

र्थ: । साधनव्याप्यत्वाभिधानं सम्भवानुरोधात् तेन यदि द्रव्यार-

न्यायलीलावतीप्रकाशः

दकः कर्मण्यवान्तरविशेषोऽवश्यं वाच्यः, अन्यथा सर्वस्मारकर्मणो द्रव्यारम्भकसंघोगविरोधितदविरोधिनोर्विभागयोरुत्पत्तिः स्याद्व, यथा कर्मणः कर्मत्वेन संयोगविभागजनकत्वात्सर्वस्मादेव कर्मणस्तयोरुत्पत्तिः । अत्राहुः । विभागस्य द्रव्यारम्भक संयोगप्रतिद्वन्द्वित्वे यदवच्छेदेन संयोगोत्पत्तिस्तदवच्छेदेन विभागोत्पाद एव प्रयोजकः, तत्र च सहकारिविशेष एव तन्त्रम् ।

न्यायलीलावतीप्रकाशविवृतिः

यद्यप्यनुपदोक्तपरमाणुयणुकविभागस्य विरोधिविभागजनकत्वं दृष्टमेव तथापि द्रव्यानारम्भकनिष्ठस्य संयोगस्य विरोधी यो विभागस्वस्य न विभागजनकत्वमिति नियमोऽत्र द्रष्टव्यः ॥ केचित्तु परमाणुव्घणुकविभागस्यापि परम्परया द्रव्यारम्भक संयोगविरोधित्वमे वैति आरम्भकसंयोगाविरोधिविभागस्येत्येव नियम इत्याहुः । तथा सति दलाकाशविभागस्यापि तथात्वेन प्रकृतासङ्गतेः । अन्यथा सर्वस्मादिति । तथाच कमलदलविभागेऽपि द्रव्यनाशः स्यादिति भावः । एवञ्च जातिसङ्करभयेन नोदनजन्यतावच्छेदकजातेरेव नानात्वमुपेयमित्याभसन्धिः । विभागस्येति । कर्मणः कर्मत्वेनैवोभयविभागं प्रति स्वरूपयोग्यत्वेऽपि आरम्भक संयोगाद्यवच्छेद कावच्छिन्नविभागोत्पादसहकारिवशात्ताह शविभागोत्पत्तौ द्रव्यनाशः, तञ्च सहकारि दृष्टमदृष्टं वा, जातिविशेषस्तु विभागे उपलभ्यमानो नास्त्येवारम्भकसंयोगनाशलक्षणकार्यत्व मन्यथासिद्ध मेवेति भावः । तथाप्यङ्गुल्याकाशेति मूलस्यम् । यद्यप्येवं दलावयवाकाशविभागादेव दलाकाशवि. भागोऽपि स्यादिति दलद्वयविभागजन्यत्वं तस्यासिद्धमेव । न च परमाणुद्वयविभागेन परमाण्वाकाशविभागस्वीकारादेव समीहितसिद्धिरिति वाच्यम् । तथासति परमाणुद्वयसंयोगजपरमाण्वाकाशसंयोगस्यापि स्वीकारापत्तेः । तथापि यदजनकेत्यादिव्याप्तावप्र योजकत्वमेव दूषणमिति भावः ।