भागार्जनानुकूल कर्मवैचित्र्य निवृत्तिरुपाधिरिति चेन्न । नोदनजन्यविशेषस्य व्यतिरेकेऽव्यभिघातात् विरोधिविभागदर्शनात् ।
एवमभिघातव्यतिरे केऽपि नोदनात् उभयसाधारणस्यैकस्यासिद्धेः । समव्याप्तिकत्वाच्च, अविरोधिविभागजनकस्य विरोधिविभागजननानुकूल वैचित्र्यव्यावृत्त्या सर्वत्राव्यभिचारोपलब्धे: धूमार्द्रेन्धनवत् साधनाव्यापकत्वाभावात् ।
न्यायलीलावतीकण्ठाभरणम्
यन्निवृत्तिरुपाधिना स्यादिति परिहरति नोदनेति । नोदनजन्येऽभिघातजन्ये वा कर्म्मणि द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वावच्छेदकं वैजात्यमनुपलम्भबाधितमित्याह उभयेति । समेति । तर्कमूलभूतव्याप्तौ साधनोपाध्योरिति शेषः । तदेवाह - - अविरोधीति । तर्केऽविरोघिविभागजनकत्वस्यापादकस्य विरोधिविभागानुकूल कर्मवैचिउपनिवृत्तिर्व्यापिका व्याप्या च । तथाच साधनव्यापकत्वान्नायमुपाधिरित्य-
न्यायलीलावतीप्रकाशः
मताभावः, द्रव्यारम्भक संयोगविरोधियणु कविभागजनकपरमाणुव्घणुकविभागस्य दृष्टान्तत्वात् । तथापि कर्मणा दलाकाशविभाग एव जन्यतां तेन च दलद्वयविभागो जन्यतामित्येतावतापि शब्दजनकवि भागस्य ने विभागजत्वसिद्धिः । मैवम् । अनारम्भक संयोगविरोधिविभागस्यारम्भक संयोगविरोधिविभागजनकत्वात् कमलदलोन्मलिने तथा कल्पनात्। नोदनजन्येति । ननु कर्मणो विभागविशेषजनकतावच्छे-
न्यायलीलावतीप्रकाशविवृतिः
जनको न स्यादित्यस्य यो विपर्ययस्तत्रेत्यर्थः । क्वचित्पाठ एव तथा । यद्यपि मूलोक्ततर्क एवायमुपाधिः सम्भवति, तथापि तर्कमूलकमनुमानमपि दूषणीयम् । तत्र चोक्ततर्कमूलकानुमानेऽयमुपाघिरसम्भव्येवेति तर्कान्तरविपर्ययपरत्वं निरुतोपाधेः । यद्यपि प्रकाशोततर्कविपर्ययौ नाशङ्कितौ मूलकृतेति तत्रोपाध्याशङ्का तस्य न युक्त्ता, तथापि विरोधिविभागाविरोधिविभागजनकत्वयोर्विरोधामिधानेनार्थगत्या तावण्याशङ्कितावेवेति भावः । न च तत्रेति । यद्यप्ययं विरोधिविभागजनकः स्यादित्यत्र तर्क इत्यर्थः । द्रव्यारम्भकेति । त्र्यणुकारम्मकसंयोगविरोधी यो व्घणुकविभागस्तज्जनको व्द्यणुकान्तरारम्भकपरमाणुना ह्यणुकान्तरस्य विभागस्तस्थेत्यर्थः । अनारम्भकसंयोगेति ।