सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५३
ब्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशो द्धासिता


विरोधिविभागजनि केति कमलदलोन्मीलनादौ विभागजविभागोत्पत्तौ विपतिापत्तेः । यदविरोधिविभागजनकं न तद्विरोधिविभागजतकं यथा पञ्चशाखशाखाकर्म, इयमप्यविरोधिविभागजनिका यदि स्यात् विरोधिनं न जनयेदविशेषादिति तसिद्धिरिति चेन्न । नियमासिद्धेः । व्यभिचारानुपलम्भात् तत्सिद्धिरिति चेन्न । कर्मावान्तरजातिभेदस्योपाधित्वात्, व्यभिचारानुपलम्भेऽप्यप्रयोजकत्वात् ।

 मैवम् । कर्मावान्तरवैचित्र्यस्यानुपलब्धेः । विरोधिवि-


न्यायलीलावतीकण्ठाभरणम्

त्याह यदविरोधीति । अत्र विपक्षबाधकाभावमाह नेति । किञ्चित् कर्म्मजातीयं विरोध्यविरोधिविभागजनकं किञ्चिच्चाविरोधिविभागमात्रजनकं स्यादित्याह कर्मानान्तरेति ।

 उपाधेनुपलम्भादव्याप्तिरेवेत्याह यदविरोधिविभागजनकं न तद्विरोधिविभागजनकमिति व्याप्तौ विरोधिविभागजनककर्म्मगतजातिभेदाभाव उपाधिरित्याशङ्कते विरोधीति । सहकारिविशेषाधीनं कर्म्मणो विरोधिविभागजनकत्वं न तु वैजात्यं किञ्चिदिहास्ति

न्यायलीलावतप्रिकाशः

ध्यम् । यद्धि मूर्त्तनामूर्तेन च विभागजनकं तदेव [१] विरोधिविभागजनकमिति विवक्षितत्वात् । तत्सिद्धिरिति । यद्यप्यविरोधिविभागमात्रजनकत्वेनान्यथासिद्धेरेवमपि शब्दजनकदला काशविभागस्य विभागजस्वं न सिद्ध्यति, तथापि विभागजविभागसिद्धिमभ्युपत्यैतदुक्तम् ॥

 विरोधिविभागेति । विपर्ययानुमाने चायमुपाधि न च तत्र दृष्टा-

न्यायलीलावती प्रकाशविवृतिः

दिति । तदेव परमिस्यनेन समनियमो विवक्षितः । यद्यप्यविरोधिविभागेति । वंशदलकर्म दलविभागमेव जनयतु, दलद्वयविभागश्च विभागज इत्येतावताप्युक्तनियमोपपत्तौ शब्दसमवायिकारणवि भागस्य विभागजत्वं न सिद्धमित्यर्थः । तथापीति । जन्यभूतविभागजाश्रय कारणद्वय पूर्वको विभागस्तथापि सिद्ध एवेत्यर्थः । विप र्ययानुमान इति । यद्ययं विरोधिविभागजनकः स्यादविरोधिविभाग-


  1. ↑ तदेव परमिति अत्र विवृतिवाराभिमतः पाठो द्रष्टव्यः ।