सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५२
न्यायलीलावती


क्रियया वंशदलयो [] र्विभागः, ततश्च नभोभागविभाग: []

 ननु क्रम कल्पनेयमनुपपन्ना, अबाधितस्य यौगपद्यस्य वेदनात् । या विभागद्वयजनिकाक्रिया सा द्रव्याविरोधिभागज निकेति बाषकमस्तीति चेन्न । विपरीतापत्ते: [] | या विभागद्वयजनिका सा


न्यायलीलावतीकण्ठाभरणम्

कारणत्वे तस्यैव प्रस्तुतत्वात् ।

 या बिभागद्वयेति । अवयवविभागजनिका सती या क्रिया अवयवाकाशविभागजनिका सा द्रव्यारम्भक संयोगाविरोधिनं विभागं जनयतीति कमलक्रियायां द्दष्टं तद्वदत्रापि द्रव्याविरोधिनं विभागं जनयेदित्यर्थः । वैपरीत्यापत्तरिति । कर्म्मजत्वेनाभिमतः कमलदलाकाशविभागो विभागजः स्यात् विभागजत्वेनाभिमतो वंशदलाकाशविभागः कर्म्मजः स्यादिति विपरीतमेव किन्न स्यादित्यर्थः । तदेव हफुटयति येति । वंशदलकर्म्म यदि द्रव्यारम्भक संयोगाविरोधिनं दलाकाशविभागं ज नयेत् तदा द्रव्यारम्भक संयोगविरोधिनं दलद्वयविभागं न जनयेत् कमलदलविभागे तथा दर्शनात् जनयति विरोधिनं विभागम् तस्मान्नाविरोधिविभागजनकमिति दलाकाशविभागो विभागज एवे-

न्यायलीलावतीप्रकाशः

मवायिकारणं दलाकाशविभागो विभागासमवायिकारणक इत्यर्थः ।

 विभागद्वयेति । या क्रिया अवयवान्तराद्विभागजनिका सती श्रा काशदेशादपि विभागं जनयति सा द्रव्यारम्भकसंयोगाविरोधिनमेव विभागं जनयतीति कमलदलक्रियाणं दर्शनादित्यर्थः । विपरीतापत्तरिति । कमलदलाकाशविभागः कर्मजो विभागजः स्फुटद्वेणुदलाकाशविभागक्ष्च विभागजोपि कर्मजः स्याद्विपक्षे बाघकाभावेन व्याप्तौ विनिगमकाभावादित्यर्थः । तदेव स्फुटयति या विभागेति । न च मूर्त्तद्वय संयुक्ते मूर्ते कर्मोत्पत्ताबेकं कर्म विरोधिविभागद्वयजनकमिति वा-

म्यायलीलावती प्रकाशविवृतिः

यिकारणमिति ।

 उभयतन्तु संयुक्तैकस्य सन्तोः कर्मणा यत्र तन्तुद्वयविभागस्तत्रोक्त्तनियमव्यभिचारमाशङ्क्यान्यथा नियममाह या क्रियाऽवयवान्तरा-


  1. दलक्रियानन्तरं वंशदलयोरिति प्रा० पु० पाठः ।
  2. आकाशविभाग इति मा० पु० पाठः ।
  3. वैपत्यापत्तेरिति प्रा० पु० पाठः ।