बाघकाभावात् आश्रयाश्रित संयोग मात्रनाशनाश्यः संयोगः
स्यादिति निरस्तम् ॥
स्फुटद्वेणुशब्दाच्च विभागोऽवगम्यते । स हि न वंशदलद्वयसंयोगनाशापेक्षवंशदला काशसंयोगजन्मा, संयोगजस्य शब्दस्य संयोगनिमित्तकारणतोपळम्भात् मेरींसंयोगजस्य शब्दस्य दएडसंयोगनिमित्ततावत् । अभिषातजः स्यादिति चेत् । न । भिन्नदिङ्मुख गतिद्लयोस्तदभावात् । वायोः स्यादिति चेन्न । तस्य स्पर्शादिलिङ्गकस्य तदनुपलम्भेनैवासच्वावधारणात् [१], अन्यथा सर्वत्रातीन्द्रियवायुसंयोग कारणताया अनिवारणमिति सिद्धस्तावद्विभाग: । स च विभागजः, यथा वंशदलपाटनानन्तरं
न्यायलीलावती कण्ठाभरणम्
प्रमाणान्तरेण विभागं साधयति स्फुटदिति । परिशेषमाह सहीति । वंशदलाकाशसंयोगः पूर्व्वमण्यासदित उक्तं दलद्वयसंयोगनाशापेक्षेति । दलाभिघातो निमित्तकारणं स्यादतो न नियमभङ्ग इत्याह--- अभिघातज इति । वायुदला मिघातनिमित्तकः स्यादित्याह-वायोरिति । अभिघातज इत्यनुषज्यते । अन्यथेति । भेर्थ्याकाशसंयोगजेऽपि शब्दे भेरीवायुसंयोगो निमित्तकारणं न तु भेरीदण्डसंयोग इत्यपि स्यादिव्यर्थः । स चेति । दलाकाशविभाग इत्यर्थः । शब्दासमवायि-
न्यायलीलावतीप्रकाशः
लघुत्वाच्चेत्यपि द्रष्टव्यम् ।
स्फुटदिति । त्रयोविंशतिगुणासमवायिकारणकत्वशून्यः स्फुटद्वेणुजन्यः शब्दो गुणासमवायिकारणक इत्यर्थः । अत्र पक्षविशे षणासिद्धि निराकरोति स हीति | बंशदलाकाश संयोगोऽसमवायिकरणं निमित्तकारणं तु द्रव्यान्तरेणाभिघातः स्यादित्याह अभिघातज इति । वायोरिति । अभिघातज इत्यनुषज्यते । स चेति । शब्दास-
न्यायलीलावतीप्रकाशविवृतिः
नाशकत्वं तत्र कारणनाशत्वेनैव समवायिनाशादौ तथा कल्पनादिति भावः ।
स चेत्यनेन विभागमात्रपरामर्षे विवादाभावः कारणकारणाविभागजविभागस्य सर्वैः स्वीकारादतो विशेषपरतामाह शब्दासमबा
- ↑ नैवासस्वादिति मा० पु० पाठः ।