सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वायलीलावती मपरिमाणोभयारब्धादुत्कर्षवत स्त्रिभिररारब्धस्य परिहीन परिमाण- त्रितयारब्धा दुत्कर्षस्योपळम्भात | मैवम् । एकैकारभ्यमहत्त्वावान्तर जातेरन्यदेवं महत्वोत्कर्षरूपं सामान्यं प्रत्यसमवायिकारणसमु चयस्य हेतुत्वात् । प्रचये च नास्ति कारणत्वम्, तूलाद्यवयवि नामनारम्भकत्वात् एकादिप्रत्ययस्य (१) पलाल पुञ्जवदुपपत्तेः । मैवम् | घनद्रव्यस्य स्वाश्रयद्रव्यारम्भे पलालादावेक देशाकर्षणेन , न्याय लीलावतीकण्ठाभरणम् समपरिमाणत्रयारब्धे तावदुत्कर्षः प्रतीयते स्वल्पपरिमाणत्रितयार- ब्धापेक्षयाऽप्युत्कर्षः प्रतीयते, तत्र महत्वं बहुत्वं च द्वयमपि कार- णमित्यर्थः । एकैकेति । यथा प्रत्येकारब्धेऽपीति न समावेश इत्यर्थः । हेतुत्वादिति । प्रयोजकत्वादित्यर्थः । तूलादीति । तुलादिपिण्डानां पलाला. दिजालवनावयवित्वमित्यर्थः । धारणाकर्षणेऽवयविलक्षणं तूलकपि ण्डे दृश्यते न तु पलालजालेऽपीति तत्रानारम्भकत्व प्रत्ययोऽत्र भ्रान्त इत्याह - घनद्रव्यस्येति । ननु धारणाकर्षणे चेदवयविलक्षणन्तदा न्यायलीलावतीप्रकाशः योज्येति नोक्तदोष इत्याह एकैकेति। असमवायिकारणसङ्ख्यापरि- माणे तयोः समुच्चय इत्यर्थः | तूलेति । न च समवायिकारणं विना. Sसमवायिमात्रात्परिमाणोत्पत्तिरित्यर्थः । एकस्तूल कपिण्ड इत्यनु भवस्त्वन्यथोपपन्न इत्याह एकेति| परिमाणस्य यावदाश्रयमनुवृत्तेः पूर्वद्रव्याविनाशे परिमाणवति च परिमाणान्तरानुत्पत्तेः न तूलकादौ प्रचयस्य परिमाणारम्भकत्वमित्यपि द्रष्टव्यम् | घनद्रव्यस्येति । पूर्व- द्रव्यनाशे च स्पर्शवद्रव्याभिघातो हेतुः । यद्यपि घनद्रव्याकर्षणे , हस्तसंयुक्ताऽवयवान्तरकर्म न वेगान्नाभिघाताच्च तस्य स्वविमुख. कर्मजनकत्वनियमात्, न च नोदनात् तस्य कर्मवद्रव्यसंयोगरूप- स्वात्, न चात्र कर्मवता हस्तेन भागान्तरस्य संयोगोऽस्ति, तथापि कर्मवदवयवसंयोग एव नोदनं तद्धेतु, इयं युक्तिः कर्षणप्रसङ्गरू पेत्यर्थः ॥ न्यायलीलावतीप्रकाशविवृतिः इस्तसंयुक्तावयवान्तरेति । हस्तसंयुक्ताद्यवयवान्तरं तत्कर्मेत्यर्थः । ( १ ) प्रचयस्येति मा० पू० पाठः |