समुदायाकर्षणप्रसङ्गात्, अनारम्भे भ्रान्तत्वात्तूलकादौ बाधका
भावात् । घनाघनसाधारणीयं युक्तिः किं न बाधिकेति चेत् ।
न । तोयाद्यवयविविच्छेदात्तेरियास्वाम् ॥ इति परिमाणम् ॥
ननु द्वित्वद्विपृथक्त्वयोरपेक्ष बुद्धिः किं युगपदुत्पद्यते क्रमेण वा ? नायः । ज्ञानयोगपद्यनिषेधात् । द्वितीये तु द्वित्वापेक्षाबुद्धेरुत्पादे तदनन्तरं च द्विपृथक्त्वापेक्षाबुद्धय द्वित्वजनकापेक्षा बुद्धिनाशे द्विपृथक्त्व द्वित्व सामान्यज्ञानयोरुत्पादेडपेक्षाबुद्धिनाशात् द्वित्वनाशे द्वित्वस्य विशेषणस्याभावात्कथं तदुत्तरकालं द्वित्वविशेषणस्याभाद्वित्वविशिष्टपृथक्त्वप्रत्ययः । न च द्विपृथक्त्वं नामापरं सामान्यमस्ति । अथ पूर्व द्विपृथक्त्वजनकापेक्षाबुद्धयुत्पादः, तथासति द्विपृथक्त्वस्यैव नाशात् द्वित्वावशिष्टप्रत्ययो न स्वादिति चेन्न । उभयैकत्वै कपृथ-
न्यायलीलावतीकण्ठाभरणम्
यत्र तन्नास्ति तद्धनमघनं वा नावयवीत्येव किं न स्यादित्याह-- घनाघनीत । तर्हि तल्लक्षणाभावत तोयमवयवि न स्यात् नहि तत्र धारणाकर्षणे इत्याह -- तोयेति ।
ननु द्विपृथक्त्वे द्वाविमौ पृथगिति धीर्मानं, सा चानुपलब्धेत्याह –- नचीत । द्वावेकत्वे द्वे च पृथक्त्वे एकयैव समूहालम्बनधिया यद गृह्येते तदा द्वित्वपृथक्वे द्वेऽपि उत्पद्येते इत्याह उभयैकत्वेति ।
न्यायलीलावतीप्रकाशः
द्विपृथक्त्वं व्यासज्यवृत्ति गुणान्तरमस्तीति, तत्रेमौ द्वौ पृथगिति धीर्मानं सा च न सम्भवतीत्याह नन्विति । ननु द्विपृथक्त्ववृत्ति पृथक्त्वस्वजातिव्याप्यं सामान्यमस्ति तत एव द्वित्वाभावेऽपि द्वौ पृथगिति धीः स्यादिश्यत आह नचेति । व्यासज्यवृत्तिगुणान्तरपक्षेऽपि तत्र ताइशसामान्यानभ्युपगमादित्यर्थः । न चैत्रमेक पृथकत्वस्यापेझाबुद्धिं विनाप्युत्पत्तेः क्व तस्याः कारणत्वमिति वाच्यम् । अननुगतस्यापि जन्यतावच्छेदकत्वात् तस्य व्याप्यत्वरूपत्वात्। उभये-
न्यायलीलावतीप्रकाशविंवृतिः
अननुगतस्यापीति । अवान्तरजातिस्वीकारपक्षेऽपि सकलसाधारण.